पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/408

पुटमेतत् सुपुष्टितम्

 कैवल्यपादः चतुर्थः ३६७

                  [ भाष्यम् ] 

तत्र गुणधर्मेषु महदादिषु परिणामापरान्तनिर्ग्राह्मः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पित इति ॥

अथाऽस्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? । अवचनीयमेतत् । कथम् ? अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति । ॐ भो इति ॥

अथ सर्वो मृत्वा जनिष्यत इति ? विभज्यवचनीयमेतत् । प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरस्तु जनिष्यते । तथा,

[ विवरणम् ]

तत्र गुणधर्मेषु महदादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानः शरीरादिष्विव । नित्येषु तु गुणेषु धर्मिष्वलब्धपर्यवसानः नित्यत्वादेषाम् । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयते । तेन मुक्तपुरुषेष्वसन्नप्यनुभवद्वारेण, शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पितः इति अलब्धपर्यवसान एव । परमार्थतः पुरुषेष्वपरिणामित्वान्नास्ति क्रम इत्यर्थः ॥

अथास्य संसारस्य स्थित्या प्रधानरूपेण, गत्या विकारात्मना, द्वयं च गुणात्मकमिति गुणेषु च वर्तमानस्य अस्ति क्रमपरिसमाप्तिः न वेति ? अवचनीयमेतत् । अस्त्येवेत्यवधारणं न शक्यं कर्तुम् । नापि नास्त्येवेति । किं तु विभज्य, कस्यचिदस्ति कस्यापि नास्तीति वचनीयमेव ॥

कथम् ? अस्ति प्रश्न एकान्तवचनीयः अप्रविभज्यापि । यथा सर्वो जातो मरिष्यति अज्ञानी इति । ननु ज्ञानवानपि मरिष्यत्येव । उच्यते- अज्ञस्य हि मरणमित्यभिमानः, न ज्ञानिनः । तथा चोक्तम्-'मिथ्यैतदाहुर्म्रियतीति मूढाः' इति ॥

अथ सर्वो मृत्वा जनिष्यत इति ? विभज्य वचनीयमेतत् एकान्तानुपपत्तेः । कथम् ? प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरः अज्ञः जनिष्यते

१. बुद्ध्या