पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/409

पुटमेतत् सुपुष्टितम्

पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम ]

मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे, विभज्य वचनीयः प्रश्नः - पशूनधिकृत्य श्रेयसी, देवानृषींश्चाधिकृत्य नेति । अयं त्ववचनीयः प्रश्नः - संसारोऽयमन्तवानथानन्तः ? इति । कुशलस्यास्ति संसार चक्रसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः ।तस्मा दव्याकरणीय एवायं प्रश्नः इति ॥ ३३ ॥

गुणाधिकारपरिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते

[ सूत्रम् ]

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥

॥ इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे

चतुर्थः कैवल्यपादः ॥

[ विवरणम् ] तथा मनुष्यजातिः श्रेयसी एव नैव वेत्यवचनीयः प्रश्नः । प्रविभज्य तु वचनीय एव । कथम् ? पशूनुद्दिश्य श्रेयसी भवति । देवानृषीश्चाधिकृत्य न श्रेयसी भवति ॥

अयं त्ववचनीय एव अप्रविभज्य सामान्येन प्रश्नः - यथा संसारोऽयमन्तवानेवेति अनन्त एवेति वा । बन्धमोक्षानुपपत्तेः । प्रविभज्य तु वचनीय एव । यथा कुशलस्यास्ति संसारचक्रपरिसमाप्तिर्नेतरस्येति ।

अन्यतरावधारणे दोषः । संसारोऽन्तवानेवानन्त एवेति वान्यतरावधारणे दोषः । तस्मादव्याकरणीय एवायं सामान्येनाप्रविभज्य प्रश्नः, यथा-सर्वो मृत्वा जनिष्यते इति, एवं मनुष्यजातिः श्रेयस्येवेति च । तस्मात् सुष्ठूक्तं कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानामिति विशेषणम् ॥ ३३ ॥

गुणाधिकारपरिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते । कैवल्यं प्रति विप्रतिपत्तेः। केषांचिद्विज्ञानसन्तानस्यात्यन्तोपरामः कैवल्यम् । केषांचित्तु नवानामात्मगुणानां बुद्धीच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्मसंस्काराणामुच्छेदेनाचेतनस्य द्रव्यमात्रस्य पुरुषस्यावस्थानम्। केषांचिदीश्वरसायुज्यम् । केषांचित् सर्वज्ञत्वादीश्वरतुल्यधर्मत्वप्राप्तिः कैवल्यमिति भिन्ना मतिः ॥

१. क्रमस- २. द्वयाक ३. क्रमस