पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/41

पुटमेतत् सुपुष्टितम्

xxxvii

परमभक्तस्य नागेशभट्टस्य 'नागेश' इति तदीयं नामैव वहतः पतञ्जलिप्रणीतत्वादेव परमार्थसारग्रन्थे परमस्समादरः । कलाख्यटीकाकृदपि परमार्थसारकर्तारं पतञ्जलिमेव स्पष्टमाचचक्षे ॥

 एवं च पतञ्जलिव्यासशङ्कराख्यं शेषहरिहरावतारभूतं महामहिमशालि मुनित्रयमपि औपनिषदाद्वैततत्त्वपरिनिष्ठितम् एकाभिप्रायम् एकत्र अद्वैतात्मानुभवसाधनीभूतयोगविषये सूत्रतद्भाष्यतद्विवरणकर्तृत्वेन योगमन्वभूत् इति संशीलयतां सहृदयानां महदिदं प्रमोदस्थानम् इत्यलमियता ॥

 अस्य च योगशास्त्रस्य प्रथमं प्रवर्तको हिरण्यगर्भः ।

 "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः"

इति योगियाज्ञवल्क्यस्मरणात् । पतञ्जलिः तदनुसारेण पश्चात् योगशास्त्रस्य प्रवर्तकः । अत एव "अथ योगानुशासनम्" इति सूत्रयामास । शिष्टस्य हि शासनम् अनुशासनम् । अत एव माधवाचार्याः प्रोचुः--"ननु हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः इति याज्ञवल्क्यस्मृतेः, पतञ्जलिः कथं योगस्य शासितेति चेत्--अद्धा । अत एव तत्र तत्र पुराणादौ योगस्य विप्रकीर्णतया विशिष्य दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता दयासिन्धुना फणिपतिना सारं सञ्जिघृक्षुणा अनुशासनमारब्धम्, न तु साक्षात् शासनम् ॥" इति सर्वदर्शनसंग्रहान्तर्गतपातञ्जलदर्शनसंग्रहे ॥

 "पत्युरसामञ्जस्यात्" (२-२-३७) इति ब्रह्मसूत्रभाष्यगतं "साङ्ख्ययोगव्यपाश्रयाः" इति पदं व्याचक्षाणेन भामतीकृता 'सांख्ययोगव्यपाश्रयाः' हिरण्यगर्भपतञ्जलिप्रभृतयः, इत्युक्तम् ॥

 शैवाद्यागमेष्वपि चर्याक्रियायोगज्ञाननिरूपकपादचतुष्टयवत्सु योगपादे योगस्वरूपं सविस्तरमुक्तम् । पुराणेतिहासेष्वपि च प्रपञ्चितम् ॥

 इदं च योगशास्त्रं चिकित्साशास्त्रवत् चतुर्व्यूहम् । यथा हि चिकित्साशास्त्रं रोगः, रोगहेतुः, आरोग्यं, भैषज्यं, इति चतुर्व्यूहव्युत्पादनपरं, तद्वदेव इदमपि भवरोगचिकित्साशास्त्ररूपं योगशास्त्रं, हेयः, हेयहेतुः, हानं, हानोपाय इति चतुर्व्यूहव्युत्पादकम् । दुःखप्रचुरः संसारो हेयः, तस्य अविद्यानिमित्तः द्रष्टृदृश्यसंयोगो हेतुः, विवेकख्यातिरविप्लवा हानोपायः, विवेकख्यातौ च सत्यां अविद्यानिवृत्तिः, तन्निवृत्तौ आत्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम्, तदेव च कैवल्यम् ॥