पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/44

पुटमेतत् सुपुष्टितम्

xI

बहुदूरस्थेन पूर्ववाक्येनान्वयः, पूर्ववाक्यस्य बहुदूरस्थेन पश्चिमवाक्येनान्वय इति रीत्या विप्रकीर्णवाक्यानां व्यत्यासेन मिथोयोजने मतिरुदभूत् भगवत्पादानुग्रहवशात् । तथाविधयोजने कृते च मिथोऽन्वययोग्यार्थत्वं वाक्यानामालोच्य प्रमोदभरश्च समजनि । एतादृशानाम् अन्वितार्थानां वाक्यानां मिथो योजनं कुत्र कथं कृतम् ? आदर्शकोशे कतिपुटव्यवधानतः तानि लिखितान्यासन् ? इत्येतत्, ग्रन्थं एव विंशतिसङ्ख्याकेषु तत्तद्वाक्यमुद्रणस्थलेषु अधः टिप्पण्यां प्रदर्शितम् । तन्निरीक्षणेन च परिशोधनपरिश्रमः कियानभूदिति अवगम्येत सहृदयैः ॥

 एवं महता प्रयासेन शोधने कृतेऽपि मानुषशेमुषीस्वभावसिद्धेन प्रमादेन बह्व्यः अशुद्धयः सम्भाव्येरन् । पठनपाठनवशादेव तु ता निरसनीया भवेयुः सूक्ष्मेक्षिकया सहृदयैः, इति सविनयं निवेद्य एतावता उपसंह्रियते ॥

पूज्यान् पतञ्जलिव्यासशंकरांस्त्रीन् मुनीन् नुमः ।
योगशास्त्रस्य वेदान्तशास्त्रस्यापि प्रवर्तकान् ॥

इत्थम्

'शास्त्ररत्नाकर' बिरुदभूषितः

पोलकम् - सु. श्रीरामशास्त्री

मद्रपुरसंस्कृतकलाशाला - वेदान्तसाहित्याध्यापकः ।

'न्यायवेदान्तशिरोमणिः'

एस्. आर्. कृष्णमूर्तिशास्त्री

मद्रपुरसंस्कृतकलाशालान्यायवेदान्ताध्यापकः ॥

॥ शुभम् ॥