पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/53

पुटमेतत् सुपुष्टितम्
समाधिपादः प्रथमः

 कथं तदुपायत्वम् ? यत आह सूत्रकारः--*योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवे१कख्यातेः* इति । ‘निर्विचारवैशारद्येऽध्यात्मप्रसादः२* ‘ऋतंभरा३ तत्र प्रज्ञा? इति च । तथा भाष्यकारोऽप्याह--‘यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति४* इति । भूतार्थावगतिश्च विवेकख्यातिः । तस्माद्युक्तं तदुपाययोगानुशासनमेवादौ सूत्रितमिति ॥

 ननु च योगाङ्गानुष्ठानाद्विवेकख्यातिः, तत्र वक्तव्यं 'अथ योगाङ्गानुशासनम्* इति-न-फलेनोपक्रमात् । योगाङ्गानुष्ठानस्य हेि फलं योग इति तदुपक्रमो युक्तः ।.

 यद्येवं हानेनोपक्रम्येत-न-तस्योपेयत्वात्-उपेयमेव हि तत् । योगः पुनः स्वाङ्गानामुपेयश्च, उपायश्च विवेकख्यातेरणिमादिप्राप्तेश्चेत्यभ्यर्हिततरः । फलतदुपायरूपत्वात् (फलपयनिमित्तत्वात्) ।.

 उत्तरसूत्रार्थत्वाच्च । न हि 'अथ योगाङ्गानुशासनम्।' इत्युक्ते ‘योगश्चित्तवृत्ति५निरोधः' इति युक्तं वक्तुम् । तदा हि ‘यमनि६यमा'दिसूत्रमेव पठितव्यं स्यात् ॥

 अथ तदेव पठितव्यमिति चेत्-न्-योगोपे(पा)यया हानोपायभूताया विवेकख्याते:, फलस्य च हानस्य, संबन्ध[प्र]दर्शनार्थत्वात् 'योगश्चित्तवृति7निरोधः* इत्यस्य ॥

 (स)कथं पुनरेतत्संबन्धप्रदर्शनार्थम् ? यावता निर्बीजसमाधिलक्षणाभिधान- मेतत् । सत्यमेवं, तथापि हानतदुपायसंबन्धमवद्योतयदेव सूत्रं निर्बीजसमाधिलक्षणतामापद्यते ॥

 न हि निरोधलक्षणात् समाधेरर्थान्तरं हानम् । र्कि त्वेतावता विशेष:, निरोधलक्षणसमाधौ (धेर्न) पुनः प्रवृतिः, हाने त्वात्यन्तिकी निवृत्तिरिति । समाध्यवस्थायां तु हानाविशेष एव । तथा चाह-*तदा द्रष्टुः स्वरूपेऽव८स्थानम्* [इति] ।। **स्वरूपप्रतिष्ठा च चितिशक्तिः कै९वल्यम्* इति स्वरूपप्रतिष्ठत्वं(ष्ठं) हि कैवल्यमाह । ततश्च निर्बीजसमाधिना कैवल्यमेव शास्त्रार्थप्रत्ययद्रढिम्ने साक्षात्क्रियते ॥


1. पा. 2. सू. 28.
2. पा. 1. सू. 47.
3. पा. 1. सू. 48.
4. पा. 1. सू. 1.
5. पा. 1. सू. 2.
6. पा. 2. सू. 29.
7. पा. 1. सू. 2.
8. पा. 1. सू. 3.
9. पा. 4. सू. 34.