पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/55

पुटमेतत् सुपुष्टितम्
समाधिपादः प्रथमः


[ भाष्यम् ]

 योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तं, एकाग्रं, निरुद्धम् इति चित्तभूमयः ॥

[ विवरणम् ]

 कः पुनर्योगो यस्यानुशासनं प्रस्तुतमिति-आह--योगः समाधिरिति ॥ समाधिग्रहणात् 'युजिर्योगे' इति निवर्त्य, 'युज समाधौ' इत्ययं गृहीतः । योगः समाधानम् । ननु च ‘योगः समाधिः*_इत्येवमन्तेन व्याख्याते सूत्रे ‘स च सार्वभौमः* इत्यादिभाष्यमसंबन्धं दृश्यते । नैष दोषः । इह समाधिरित्युक्ते, समाधीयमानापेक्षत्वात्, समाधीयमानानां च बहुत्वात् , किमात्मा समाधीयते ? किं वा शरीरम्, आहोस्विदिन्द्रियाणि, इति बहु(विदां)धा विप्रतिपत्ते:, . स्वविशेषणाकाङ्क्षत्वाच्च समाधे:, कस्यायम्? किंविशेषणकः? इत्यनुषक्ते प्रश्ने, इदमाह-स च सार्वभौमश्चित्तस्य धर्म इति । चित्तस्य धर्मो नात्मादीनाम् । तच्च चित्तं स्वयमेव समाधीयते [समाधात्रjन्तरनिरपेक्षत्वात् ॥

 काः पुनर्भूमय इत्यत आह-क्षिप्तं मूढमित्यादयो भूमय इति । क्षिप्तमिति कर्मकर्तरि निष्ठा ! यथा भिन्नः कुसूलः स्वयमेवेति । क्षिप्तमनिष्ट . विषयासञ्जनेन स्तिमितम् । मूढं निर्विवेकम् । विक्षिप्तं नानाक्षिप्तम् | कर्मकर्तर्येव । विवेकाक्षमं च विक्षिप्तत्वादेव । एकाग्रं तुल्यप्रत्ययप्रवाहम् । निरुद्धमिति प्रत्ययशून्यं चित्तम्ll

 ननु च भूमिषु धर्मेषु विवक्षितेषु, किमर्थं क्षिप्तमित्यादिना धर्म्युच्यते ? नैष दोषः, धर्मिणा धर्म एवोपदिश्यते । धर्माणां धर्मिविषयत्वात् । यथा गोत्वे किं लिङ्गमिति पृष्टे, विषाणी ककुद्मान् प्रान्तवालधिरिति धर्मिणा धर्म एवोपदिश्यते । तस्मात् क्षेपादयश्चित्तस्य भूमयो धर्मा इत्यर्थः ।

 ननु च भूमीनां चित्तधर्मत्वे समाधेश्च, कथं भूमिभिः समाधिराधारत्वेन विशेष्यते सार्वभौम इति ? सामान्यभूतत्वात् समाधेः । भूमीनां च विशेषत्वात् । यथा क्षिप्तं तिष्ठति, मूढ़ं तिष्ठति, विक्षिप्तमेकाग्रं चेति, क्षिप्तादिभूमिषु स्थितिरनुवर्तते सामान्यम् । स्थितिश्च समाधिः । तस्मात् सामान्यरूपं सर्वासु भूमिषु प्राधान्येन वर्तत इति । ‘सर्वभूमिपृथिवी' इत्यैश्वर्यार्थीयोऽण्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥

 अन्ये पुनर्बाह्याध्यात्मिकान् संयमविषयान् भूमय इत्याचक्षते । तेषां विक्षिप्ते चेतसि इति सामानाधिकरण्यानुपपत्तिः । स्ववचनविरोधश्च कथम् ?