पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/56

पुटमेतत् सुपुष्टितम्
 पातञ्जलयोगसूत्रभाष्यविवरणे

  क्षिप्यतेऽस्मिन्निति क्षिप्तम् , मुह्यतेऽस्मिन्निति मूढं, यदा चैवं न तदा संयमविषयता । तत्र क्षेपाद्यसंभवात् । एकाग्रावस्थायां हि संयमो भवति ।

 किं चान्यत्-क्षिपेश्व ध्रौव्याद्यर्थाभावादधिकरणे निष्ठाप्रत्ययाभावः। किं च-निरुद्धे चेतसि संयमस्यापि तत्राभावात् वृत्तिशून्यत्वात् संयमविषयाभावः । न हि "निरोधे विषयविशेषे चित्तं निरुध्यते । तदा हि विषयित्वान्निवर्तते । परिगणनानुपपत्तिश्च । न हि क्षिप्तादयः पञ्चैव संयमस्य विषयाः । तेषामानन्त्यात् ॥

 ननु चान्यथा योगं केचिदिच्छन्ति । तथा चाहुः--**इन्द्रियमनोऽर्थसन्निकर्षात् सुखदु:खे, तदनारम्भ आत्मस्थे मनसि, (स)शरीरस्य सुखदु:खाभाव: प्राणमनोविनिग्रहापेक्षः संयोगो (योग] इति* । तदिति प्रकृतापेक्षम् । योऽसौ सुखदुःखयोरात्मेन्द्रियमनोऽर्थसन्निकर्षो हेतुः, तस्यानारम्भः तदनुत्पत्तिः । स कथं भवति ? आत्मस्थे मनसि, नेन्द्रियस्थे । सशरीरस्य अविशीर्णशरीरस्य । तदा कारणाभावात् कार्याभाव इति, सन्निकर्षाभावे सुखदुःखयोरप्यभावः, तस्यामवस्थायां योऽसौ विभोरात्मनो मनसा संयोगः स प्राणमनोविनिग्रहापेक्षः संयोगविशेषो योग इति ।

 अत्रोच्यते-आत्मस्थे मनसीत्ययुक्तम्, सर्वदा आत्मस्थत्वान्मनसः । इन्द्रियादिसन्निकर्षानारम्भापेक्षया आत्मस्थे इति चेत्, तदनारम्भ इत्येव सिद्धत्वादात्मस्थे मनसीत्यनर्थकं स्यात् ॥

 किं चान्यत्-मुक्तस्यापि मनस आत्मस्थत्वादिन्द्रियसन्निकर्षाभावाञ्च योगः प्राप्नोति । तस्यापि हि सर्वगतत्वात् मनसश्च नित्यत्वात् सर्वदात्मस्थत्वमेव ॥ किं च-आत्मनः प्रदेशाभावादात्मस्थ इत्ययुक्तम् । न चाप्युपचरितात्मप्रदेशसंयोगः परमार्थस्य योगस्य हेतुः स्यात् । उपचरितस्य मिथ्यात्वात् ॥

 किं चान्यत्-मनोऽर्थसन्निकर्षाभाव इत्येव सिद्धेः(द्धं)इन्द्रियग्रहणमनर्थकं स्यात् । अथेन्द्रियैर्विना मनोऽर्थसन्निकर्षाभावात्तदनारभ्भ इति प्राप्त्यभावे प्रतिषेधो न युक्त इति चेत् । नैतदेवम्, विनेन्द्रियैर्मनोऽर्थसन्निकर्षो नास्तीत्यर्थात्सन्निकर्षप्रतिषेधं कुर्वता विषयप्राप्तिरिन्द्रियद्वारा प्रतिपादितां स्यात्।

 किं चान्यत्-सर्वप्राणभाजामिन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखप्रतिलम्भस्य प्रसिद्धत्वादात्मनः सम्बन्धस्य च नित्यत्वात् सुखदुःखाभावो योग इत्येव सिद्धेः, तत्र [सूत्र] शेषोऽनर्थकः स्यात् ॥