पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/61

पुटमेतत् सुपुष्टितम्
११
समाधिपादः प्रथमः

[ भाष्यम् ]

रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति । तत्तमसानुविद्धम् SNA -- I was e Yma अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति ।

 तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्चर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत् परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः ।

 चितिशक्तिरपरिणामिनी * अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च ।

[ विवरणम्]

 इदानी वृत्तयो व्याख्यायन्ते । तासां चानेकत्वं रजस्तमसोरुद्भवाभिभवनिमित्तं विरुद्धत्वं चेत्याह-रजस्तमोभ्यां संसृष्टं समप्रधानाभ्यां यदा संसृष्टं तदानीं ऐश्वर्यविषयप्रियं भवति ।॥ प्रीतिः रागः, ऐश्वर्यविषयरागयुक्ता वृत्तयो भवन्तीत्यर्थः ।

 तत्तमसानुविद्धं ॥ तदेव प्रख्यास्वरूपं चित्तं यदा गुणभूतरजस्केनोद्भूतेन तमसानुविद्धं, तदानीमधर्मादिचतुष्टयविषया वृत्तयः क्लिष्टा जायन्ते ॥

 तदेव प्रक्षीणमोहावरणमिति ॥ न्यग्भूततमस्कं तमःक्षयादेव जलधरापगमादिव (परि) रविबिम्ब सर्वतः प्रद्योतमानं रजोमात्रया रजोलेशेन अनुविद्धं यदा तदा धर्माद्युपगतं । धर्मादिचतुष्टयविषया वृत्तयोऽक्लिष्टा भवन्ति |

 यदा तदेव रजो(लेश]मलोपेतं स्वरूपप्रतिष्ठं केवलेन स्वेन प्रख्यारूपेणावस्थितं, तदा सत्त्वपुरुषान्यताख्यातिमात्रं भवति । सत्त्वं चित्तं पुरुषो भोक्ता तयोरन्यता विविक्तता तत्ख्यातिः तदवगमः, तन्मात्रग्रहणं क्लेशाद्यभावप्रदर्शनार्थम् । धर्ममेघध्यानोपगं भवति धर्ममेघो नाम समाधिः ॥

 तदेव प्रसंख्यानबलाद्रजस्तमसी तिरस्कृत्य केवलेन ख्यात्यात्मना पुरुष‘स्वरूपमात्रदर्शनेन अवस्थानं ध्यानं प्रसंख्यानमित्याचक्षते, ध्यायेिनो योगिनः ॥ एवं वृत्तिस्वरूपे व्याख्याते तन्निरोधप्रदर्शनार्थमाह--चित्तशक्तिरित्यादि ॥ चितिरेव शक्तिः चितिशक्तिः । यथा पच्यादयः शक्तयः शक्तिमदपेक्षाप्रापणीय - जन्मानो न स्वयंशक्त्तयः । चितिः पुनः स्वयमेव शक्तिः, नार्थान्तरमपेक्षते ।