पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/62

पुटमेतत् सुपुष्टितम्
१२
पातज्ञलयोगसूत्रभाष्यविवणे

[ भाष्यम्]

 सत्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरेति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किंचित् संप्रज्ञायत इत्यसंप्रज्ञातः । (द्विविधः) स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥

[ विवरणम्]

 तेन नित्यावस्थितत्वम् । चितिशब्दस्य चिन्मात्राभिधायिनः शक्तिशब्देन सामानाधिकरण्यं अविकृतरूपाया एव चितेर्विषयित्वप्रदर्शनार्थम्।

 यस्मादेवमतोऽपरिणामिनी । व्यवस्थिते धर्मिणि धर्मान्तरतिरोभावेन धर्मान्तरप्रादुर्भावः परिणामः । न परिणमितुं शीलमस्या इत्यपरिणामिनी । अत एव अप्रतिसङ्क्रमा, परिणामिन एव चित्तादेर्विषयादौ प्रतिसङ्क्रमदर्शनात् ॥

 अत एव दर्शितविषया दर्शितोऽन्तःकरणेन विषयोऽस्या इति । तेनैव शुद्धा । अत एव अनन्ता देशतः कालतश्च । पूर्वपूर्वमुत्तरस्योत्तरस्य हेतुत्वेन द्रष्टव्यम् । वैधर्म्यदृष्टान्तः चित्तमिन्द्रियाणि च । सत्त्वगुणात्मिका सत्त्वमेव गुणः सत्त्वगुणः तस्येवात्मा स्वरूपमवभासो यस्याः सेयं सत्त्वगुणात्मिका अवभासस्वरूपेत्यर्थ: । वृत्त्यविशिष्टवृत्तित्वाद्वा सत्त्वगुणात्मिकेप्युच्यते ॥

 यदि वा ख्यात्या संबध्यते ख्यातिः सत्त्वगुणात्मिकेति । अत: चितिशक्तेरुक्तलक्षणाया विपरीता विलक्षणा विवेकख्याति: परिणामादिमती ॥ यस्मात् पुरुषादुत्कृष्टात् परिणामादिगुणविरहितान्निकृष्टा परिणामादिगुणयुक्ता, अतः स्वरूपदोषदर्शनात् तस्यां विरक्तं अपरक्तं तामपि ख्यातिंं आत्मनो निरुणद्धि ॥ तदवस्थं निरोधावस्थं, संस्कारोपगं, संस्कारमात्रावशेषम् । निरुद्धासु वृत्तिषु वृत्तिजनिताः संस्कारा एवावशिष्यन्ते । एतस्यां निरोधभूमौ यः समाधिः स निर्बीजः ।.निर्गतं बीजमत्र क्लेशादिबीजं सर्वमुत्सन्नमस्मिन्निति । तस्मादसंप्रज्ञातसमाधिलक्षणार्थमेव सूत्रमित्युपसंहरति--स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥

 योगश्चित्तवृत्तिनिरोध इत्युक्तं, तत्र बोद्धृत्वेनैव पुरुषसद्भावाधिगमः, विषयभूतवृत्तिनिरोधे च विषयिणोऽपि बोद्धुः पुरुषस्य निरोधं कश्चिदाशङ्केतापि, तथा च सति तत्कैवल्यप्राप्त्युपायस्यापि विवेकख्यातेरनर्थकत्वं मन्वीत