पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/67

पुटमेतत् सुपुष्टितम्
१७
समाधिपादः प्रथमः

[ भाष्यम् ]

 ताः पुनर्निरोद्धव्याः बहुत्वे सति चित्तस्य--

[सुत्रम्]

 वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥

[ भाष्यम् ]

 क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीमूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः ।

[ विवरणम् ]

 नर्तकीव दर्शितविषयत्वादन्तःकरणेनेत्युक्तम्-तत्र दर्शयितृत्वं चित्तस्य, द्रष्टृत्वं च पुरुषस्य किंकृतम् ? स्वस्वामित्वकृतम् । कथं पुनः स्वस्वामित्वम् ? वस्तुस्वभावत्वात् । कथमिति चेदुक्तं-चित्तमयस्कान्तमणिकल्पमिति ॥ अथ चित्तवृत्तीनां बोधे को हेतुः पुरुषस्येति ? उच्यते - यस्मादेवं सन्निधिमात्रोपकारि चित्तं दृश्यत्वेन, तस्माच्चित्तवृत्तीनां बोधे पुरुषस्य अयं हेतुः भवति, योऽसौ अनादिसम्बन्धः ॥ ४ ॥

 ताः पुनर्निरोद्धव्याः बहुत्वेऽपि सति चित्तस्य याभिर्वृत्तिभिः व्युत्थाने सारूप्यमुक्तं पुरुषस्य । कस्मात् पुनः निरोद्धव्या इत्याह-यतो वृत्तयः क्लिष्टाक्लिष्टाः ॥

  ननु च बहुत्वे सति न शक्या निरोद्घुमित्यत आह-पञ्चतय्य इति । यद्यपि क्लिष्टाक्लिष्टा वृत्तयोऽनन्ताः,--तथापि_पञ्चतय्यः पञ्चविधाः, पञ्चकुला एव । ततश्च पञ्चप्रकारवृत्तिप्रतिपक्षभूताभ्यासवैराग्यप्रयोगादेव निरोधोपपत्तेः, प्रत्यवयवनिरोधसाधनाप्रयोजकत्वाद्वृत्तीनां, तद्वहुत्वे न निरोधाशक्यत्वप्रसङ्गः । क्लेशहेतुकाः-क्लेशनिमित्ताः_! अविद्यादिपञ्चक्लेशप्रयुक्तं हि चित्तं वृत्तिभिरात्मानं पुनः पुनरावेदयति । · कर्माशयप्रचये कर्माणि कुशलाकुशलविमिश्राणि तान्येवाऽऽफलप्रदानाच्छेरत इति कर्माशयशब्दवाच्यानि, तेषां प्रचय इतरेतरगुणप्रधानभावेन संहननं, तस्मिन् कर्माशयप्रचये निमित्ते, अविद्यादिक्षेत्रीभूताः क्लिष्टाश्रयां इत्यर्थः" सतीषु हि तासु कर्माशयो विपाकाभिमुखीभवति ॥

 ख्यातिविषयाः-ख्यात्यास्पदाः । गुणानां सत्त्वादीनाम् अधिकारः संस्कारप्रवृत्तिः तद्विरोधिन्यः ! ख्यातिविषयत्वादेव ता अक्लिष्टाः, अपवर्गहेतुत्वात् ॥