पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/68

पुटमेतत् सुपुष्टितम्
१८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्वेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते । संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति॥ ५ ॥  ताः क्लिष्टाश्चाक्लिष्टश्च पञ्चधा वृत्तय :-

[ सूत्रम्.]

 प्रमाणविपर्यंयविकल्पनिद्रास्मृतयः ॥ ६ ॥  प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

[ विवरणम् ]

 अथ क्लिष्टपङ्क्तिमध्य(मानु)जन्मानोऽक्लिष्टा वृत्तयः किं क्लिष्टा एव क्षीरकुम्भप्रक्षिप्ताम्बुबिन्दुवत् ? एवमक्लिष्टप्रवाहपतिता अपि क्लिष्टाः किमक्लिष्टा एव ? किं चातः ; यदि क्लिष्टप्रवाहगता अक्लिष्टाः क्लिष्टाः स्युः, तदा वृत्तिसंस्कारानुविधायिनी स्मृतिः, तदनुरूप , एव व्यवहारः । स चापि न सिध्यति स्वरूपव्यभिचारे । तस्मादाह-क्लिष्टच्छिद्रेष्वप्यक्लिष्टाः अक्लिष्टा एव भवन्ति । अक्लिष्टश्छिद्रेषु अपि क्लिष्टाः क्लिष्टा एव । यस्मादेवं तस्मात् तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते ॥

 यद्यपि क्लेशादयोऽपि संस्कारमारभन्ते, तथापि वृतिद्वारेव तेषामपि संस्कार इति वृत्तिभिरेवेत्येवकारार्थः । तथा संस्कारैरपि वृत्तयः स्वानुरूपं क्रियन्त इत्येवं-वृत्तिसंस्कारचक्रमनिशमनवरतमावर्तते । तदेवंभूतं चित्तं एवं हेतुहेतुमद्वृत्तिसंस्कारधर्मकम् । अवसिताधिकारं-निवृत्ताविद्याहेतुप्रवृत्तिकं हेतुमात्रावस्थत्वात् । आत्मकल्पेन-पुरुषकल्पेन ख्यातिमात्रेणैव कञ्चित्कालमवतिष्ठते-प्रारब्धसंस्कारशेषानुवृत्त्या । प्रलयं वा गच्छति -संस्कारावसानादिति । ५ ।

 काः पुनस्ताः क्लिष्टाक्लिष्टाः पञ्चप्रकारा वृत्तय इत्याह--प्रमाणविपर्यय- विकल्पनिद्रास्मृतय इति ॥

 एतावत्य एव वृत्तयः । तत्र-प्रत्यक्षानुमानागमाः प्रमाणानि ॥ प्रमाणाख्या वृत्तिस्त्रिधैव भिद्यते । तत्र प्रमाणाख्यायाश्चित्तवृत्तेः प्रथमो भेदः