पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/70

पुटमेतत् सुपुष्टितम्
२०
पातञ्जलयोगसूत्रभाष्यविवरणे

मुख्ये संभवत्यध्यारोपणा, स्मृत्यसंभवातू । न कदाचिददृष्टमुख्योदकस्य सलिलाध्यारोपणमूषरेषु विद्यते । अथास्मरन्नप्यध्यारोपयेत् रूपस्वलक्षणे शब्दत्वाद्यप्यध्यस्येत् । अथेन्द्रियान्तरविषयवाद्रूपस्वलक्षणे शव्दत्वाद्यध्यासो विरुद्ध इति चेत्-न—अवस्तुत्वे सत्यविशेषात् । विशेषाभ्युपगमे च वस्तुत्वप्रसङ्गः । शब्दस्वलक्षणादिव रूपस्वलक्षणस्य ॥

 किं चान्यत्-देशकालान्यविशिष्टप्रत्यक्षा [नj भ्युपगमे समस्तलोकव्यवहारविलोपः स्यात् । न हीदमहममुष्मिन्नवकाशे काले चास्मिन्नद्राक्षमेतस्मान्निमित्तादेवंविशेषणमिति च स्मृत्युपपत्तिः । न च प्रत्यक्षादृष्टेषु विशेष्यवद्विशेषणेषु स्मृति: संभवति । न च कल्पनापोढेन व्यवहारगोचरातीतेन व्यवहरमाणो दृश्यते । तस्माल्लोकप्रसिद्धप्रत्यक्षानुसरणमेव न्याय्यम् ॥

 ननु च योगिनां निर्विकल्पसमाधिजं दर्शर्न, तस्यानेवंलक्षणत्वात्, तथा सुखरागादिविज्ञानस्य चानिन्द्रियप्रनाडी*पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यं, प्रत्यक्षत्वं वा वक्तव्यमू । उच्यते । प्रत्यक्षस्य (न प्रमाणस्य) पुरुषप्रत्ययापेक्षत्वेन परिहृतत्वात् । न ह्यप्रत्यया वृत्तिः प्रत्यक्षम् । चैतन्योदयहेतोरेव सप्रत्ययायाः प्रत्यक्षत्वम् । तथा चाह-‘फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोध' इति ॥ एवं च सति सुखरागादिज्ञानस्य क्लिष्टाक्लिष्टरूपस्य तदविशिष्टपुरुषप्रत्ययफलावसानत्वात् प्रत्यक्षता सिद्धैव ॥


अत्रेदमवधेयम्---  आदर्शकोशे २० “प्रनाडी” इत्येतदुपरेि २५ *नपेक्ष्य सम्बन्धः सम्बन्धतामियात् । यदसौ प्रसिद्धवच्चोच्यते या इति* इत्युपक्रम्य ३४ *स्मृत्यवसाना हि सा, यतः प्रमा* इत्यन्तग्रन्थं दशभिः पुटैर्विलिख्य, तदुपरि २० **पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यं, प्रत्यक्षत्वं वा वक्तव्यम्'* इत्युपक्रम्य २५ **तस्मात् प्रमाणफलानभिज्ञानाम् अभिमानमात्रमेव केवलं पाण्डितंमन्यानामित्युपेक्षणीयमिति?? इत्यन्तं षड्भिः पुटैर्विलिख्य, ततः २५ ** अनुमानमथोच्यते?? इत्यादि २५ **कः सम्बन्धः, कयोर्वा, न हि सम्बन्धिनाव?? इत्यन्तं विलिख्य पङ्क्तचतुष्टयेन, ततः ३४ **र्णेन प्रबाध्यते, अभूतार्थादिविषयत्वात्?? इत्यादिवाक्यं लिखितं दृश्यते । कोशान्तरञ्च न लभ्यते । यथामातृकं मुद्रणे च वाक्यानामनन्वयः--न हि २० **प्रनाडी?? इत्यनेन २५ **नपेक्ष्य सम्बन्धः सम्बन्धतामियात् ?” इत्यन्वेति । न च २५ **कः सम्बन्धः कयोर्वा, न हि सम्बन्धिनाव?? इत्यनेन ३४ ** र्णेन प्रबाध्यते?” इति चान्वेति । एवं प्रत्यक्षप्रमाणनिरूपणमुपक्रम्य तदपरिसमाप्यैव मध्येऽनुमानागमप्रमाणयोर्निरूपणं, ततो विपर्ययानिरूपणं, पुनः प्रत्यक्षप्रमाणनिरूपणशेषः, ततः