पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/75

पुटमेतत् सुपुष्टितम्
२५
समाधिपादः प्रथमः


[ भाष्यम् ]

अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यः

[ विवरणम् ]

 येषां पुन: प्रत्यक्षेणासंवेद्या चित्तवृत्तिस्तेषां फलग्रहणप्रमाणाभाव: ! फले च गृहीते ज्ञानासिद्धत्वस्यार्थापत्तिः । न च फलं गृह्यते प्रमाणव्यापारानभ्युपगमात् । तदभ्युपगमे चानवस्थाप्रसङ्गः । यत्फलावग्रहणाय प्रमाणमभ्युपगम्यते तस्याप्यन्यत् फलं तत्प्रमाणस्याप्यन्यदिति न क्वचिदवतिष्ठेत ॥

 अथ न प्रमाणव्यापारस्तस्य तदा प्रमाणाभावात् फलस्यासत्त्वं प्रसक्तम् । यत्र हि सदुपलम्भकानि प्रमाणानि न व्यापारं गच्छन्ति, तन्नास्तीत्यभ्युपगच्छामः ( तेषाम्) ।

 अथ अगृह्यमाणमपि तदेव ज्ञानं प्रमाणं फलस्यापीति चेत्-न- अभिव्यञ्जकधर्मव्यतिक्रमात् । न ह्यभिव्यञ्जकं गृह्यमाणमभिव्यञ्जयद्दृष्टम् । न ह्युल्का गिरिशिखरेऽपि निजं धर्ममतिक्रामति ॥

 अथाभिव्यञ्जयदेव फलं प्रत्यपि प्रमाणमिति चेत्-सिद्धं तर्हीप्सितमस्माकम् । रागादीनां वृत्तिविशेषणत्वेन ग्रहणोपपत्तेः । रक्तोऽहं द्विष्टोऽहमिति यद्यहंप्रत्ययविशेषणं, तदापि वृतिभावाभावित्वेनैव ग्रहणाद्वृत्तिविशेषणानां रागादीनां ग्रहणमुपपद्यते । अ(तेना)न्यथा रूपादिवन्मानान्तरापेक्षत्वप्रसङ्गात् । ततश्चानवस्थेति ।

 तस्मात्प्रमाणफलानभिज्ञानामभिमानमात्रमेव केवलं पण्डितंमन्यानामित्युपेक्षणीयमिति ॥

 अनुमानमथोच्यते-अनुमेयस्य तुल्यजातीयेष्वनुवृत्त इति । अनुमेयस्य [जिज्ञासित]धर्मविशिष्टस्य । तद्धर्मवत्तया तुल्यजातीयेष्वनुवृत्तः सद्भावमात्रेण, [भिन्नजातीयेभ्यः] तद्विरुद्धधर्मकेभ्यो व्यावृत्तः-तेष्वसन् इत्यर्थः । सम्बन्ध इति । कः सम्बन्धः ? कयोर्वा ? न हि सम्बन्धिनावनपेक्ष्य सम्बन्धः सम्बन्धतामियात्, यदसौ प्रसिद्धवच्चोच्यते ‘’ इति ॥

 ननु च अनुमानस्य प्रकृतत्वात्, लिङ्गलिङ्गिनोः सम्बन्धः प्रसिद्ध एव---न—अगमकत्वात् । न केवलः सम्बन्धो गमकः । उच्यते - लिङ्गस्यैव सम्बन्धो व्यावृत्त्यनुवृत्योः । कः पुनरसौ ? लिङ्गमेव । न हि लिङ्गादन्यदनुवृत्तं व्यावृत्तं च । तच्च गमकम् । ननु लिङ्गमपि नैव गमकं