पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/76

पुटमेतत् सुपुष्टितम्
२६
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

तद्विषया सामान्यावधारणप्रधाना वृतिरनुमानम् । यथा देशान्तरप्रासेर्गतिमच्चन्द्रतारकं चैत्रवत् ।

[ विवरणम् ]

लिङ्गिसम्बन्धानपेक्षं, यदि चानपेक्षितलिङ्गलिङ्गिसम्बन्धं गमकं, यत्किञ्चिद्गमकं स्यात्, तस्मात् लिङ्गलिङ्गिसम्बन्धो वक्तव्यः ॥

 न-उक्तत्वात् ॥ 'अनुमेयस्य तुल्यजातीयेष्वनुवृत्तः' इत्यादिनैवोक्तत्वात् । न ह्यनुमेयेनासम्बद्धं लिङ्गिना तत्सदृशजातीयेष्वनुवर्तते, भिन्नजातीयेभ्यो वा निवर्तते । तस्मात् य इति च प्रसिद्धमेव संबन्धमनुवदति ॥

 तद्विषया-एवमन्वयव्यतिरेकविशिष्टसंबन्धसंबन्धिविषया वृत्तिः सामान्यावधारणप्रधाना-लिङ्गसामान्यावधारणप्रधाना, अनुमानम् ॥

 यथा देशान्तरप्राप्सेर्गतिमच्चन्द्रतारकं चैत्रवदिति ॥ यद्यपि लक्षणाभिधानमात्रेण तदभिव्यक्तिः, तथाप्युदाहरणप्रत्युदाहरणप्रदर्शनादतितरामित्युदाहरणप्रतिपादनम् । तत्र गतिमच्चन्द्रतारकमिति चन्द्रतारकस्य गतिमत्त्वमनुमेयम् । तत्समानजातीयेष्त्रनुवृत्ता देशान्तरप्राप्तिर्गतिमत्सु चैत्रादिषु, भिन्नजातीयेभ्यश्वागतेिभ्यो विन्ध्यादिभ्यो व्यावृतेति अव्यभिचरन्ती । नित्यं गतिमत्ता संबन्धात् ।

 तस्मादित्थंजातीयकमविनाभावेन संबद्धं संबन्ध्यन्तरं गमयति । यथा वध्यघातक(कृदि)कार्यकारणादि ॥

 भवतु तावदविरुद्धानां नित्यसंबन्धाद्देशान्तरप्राप्त्यादीनां गम्यगमकता, वध्यघातकादीनां तु संबन्धाभावे कथमित्युच्यते गम्यगमकभावः (भावेन) ?

 तत्रापि नित्यसंबन्धाददोषः । न ह्यन्यत्रापि प्राप्तिलक्षणः संबन्धोऽभिप्रेयते । सामान्यतो दृष्टा(नु)भावप्रसङ्गात् । न हि चन्द्रतारकादिषु देशान्तरप्रासे: प्राप्तिलक्षणसंबन्धः प्रत्यक्षेण गृह्यते । अगृह्यमाणश्चेद्गमकः सर्वं सर्वस्य गमकं स्यात् । न हि किंचित्केनचिदसंबद्धम्, आकाशादीनां सर्वत्र भावात् ॥

 तस्माद्गम्यगमकबुद्ध्युत्पत्तिहेतुरेव संबन्धोऽनुमानविषये । तथा च वध्यघातकयोरपि अन्यतर(रा)भावदर्शनेऽन्यतराभावो गम्यत इत्यनुमानमेव । यस्याप्युचिते देशे अभावदर्शनादन्यत्र भावो गम्यते । यथा घातकदर्शनेन वध्याभावोऽनुमीयते । चैत्रस्य जीवतो गृहे अभाव(गृह्यभाव)दर्शने बहिर्भावश्चेति ।