पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/79

पुटमेतत् सुपुष्टितम्
२९
समाधिपादः प्रथमः

[ भाष्यम् ]

  |[विन्ध्यश्चाप्राप्तेरगतिः ॥

[ विवरणम् ]

 यथा चासत्यपीहदेशघटाभावसंबन्धे सबन्धप्रतीतिस्तथैवानीलेऽपि वस्तुन्यसत्येव नीलत्वसंबन्धे नीलत्वसंबन्धप्रत्ययः प्राप्नोति, तथा संबन्धिष्वपि । अथास्त्येव संबन्धः, द्विष्ठता विरुध्येत संबन्धस्य । अमावस्यावस्तुत्वाभ्युपगमात् |

 अथाप्येकशतं षष्ठ्यर्था इति यावत् षष्ठ्यर्थ: संबन्ध इष्येत, तदा द्विविध एव संबन्धः समवायाख्यः संयोगाख्यश्चेति न युज्यते ॥

 अथै(तथै)कशतस्यपि षष्ठ्यर्थानामुभयान्त:पातित्वमुच्येत-न- अभावेऽन्यतरस्याप्यसम्भवात् ।

 किञ्च(न्त्व)न्यत् । इह नभसि कुसुमं नास्तीति संबन्धिनो नभसोऽप्यप्रत्यक्षत्वात् गगनकुसुमाभावस्याप्रत्यक्षत्वं प्राप्नोति । अथाप्रत्यक्षत्वमेवेति चेदापतितं गगनकुसुमाभाववदप्रत्यक्षत्वमिह भूप्रदेशे घटाभावस्यापि । विशेषो वक्तव्यः ॥

 अथ व्योम्नोऽप्रत्यक्षत्वादिति---तन्न-पुष्पस्य पततो नभस्यस्तित्वदर्शनाद्व्योमाप्रत्यक्षत्वमहेतुः । यथैव निपतत्कुसुमसद्भावे व्योमाप्रत्यक्षत्वमहेतुस्तथा सद्भावविरुद्धग्रहणेऽप्यहेतुः स्यात् । अथाकाशाप्रत्यक्षत्वादेवेति चेत्, असंबन्धमपि यत्किञ्चिद्व्यवहिताप्रत्यक्षत्वादि सोऽपि हेतुः स्यात् । अथ नभःकुसुमाभावः प्रल्यक्ष इति चेत्--इन्द्रियार्थसन्निकर्षानर्थक्यं सर्वत्र प्रसज्येत । तथा च सत्यसन्निकृष्टोपलब्धेः सर्वेषां सर्वज्ञत्वं प्रसक्तम् ॥

 अथानुमेयं तत्रेति चेत्-नभ:कुसुमाभाववदिह घटाभावस्याविशेषादानुमानिकत्व(कीय)मेव सिद्धम् । एवं च सत्यभावप्रमाणवादिनोऽपि व्यवहितविप्रकृष्टोदिकादावनलाद्यभावस्यानुमेयत्वादिह घटाभावोऽपि तत्सामान्यादनुमानग्राह्य एवेति निश्चेतुं युक्तम् ॥

 विन्ध्यश्चाप्राप्तरगतिरिति च प्रयोगान्तरम् । अगतिर्विन्ध्य इति प्रतिज्ञानम् । अप्राप्तेरिति हेतुः । चैत्रवदिति काकलोचनवदुभयत्र संबध्यते । गतिमच्चन्द्रतारकमित्यनेन साधर्म्येण, विन्ध्यश्चाप्राप्तेरित्यनेन वैधर्म्येण संबन्धः । एवं च सत्यन्वयव्यतिरेका(क)दर्शनकृतो न दोषः ॥


1. अप्राप्तिरिति वाचस्पत्यभिमतः पाठः ।