पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/83

पुटमेतत् सुपुष्टितम्
३३
समाधिपादः प्रथमः
[ सूत्रम ]

॥विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥

[ विवरणम्

 तन्न शक्यं जनानामसर्वज्ञत्वात् । चैत्यवन्दनात् स्वर्गो भवतीत्यत्र चैत्यवन्दनस्य स्वर्गहेतुत्वबुद्धेः प्रत्यक्षानुमानाविषयत्वान्मिथ्यात्वं स्यात् । तदर्थं वा प्रमाणान्तर कल्पनम् ।

 अथ सा बुद्धिरनुमानफलमिति चेत्---प्रमाणादन्यत्र फलप्रसङ्गः, एवं श(क)रणत्रयादिवाक्यार्थविषयबुद्धिरपीति ||

 नापि चात्र प्रमाणलक्षणनिरूपणतात्पर्यं, प्रसिद्धप्रमाणादिवृत्तिनिरोधाभ्युपायाभिप्रदर्शनपरत्वात् । अत एव न सूत्रकारः सूत्रयाञ्चकार । भाष्यकारेण तु किञ्चित्प्रसिद्धानुवादमात्रमवलम्बितमिति तदनुसरणेन किमपि जल्पितमिति ॥ ६ - ७ ॥  प्रमाणाख्यां वृत्तिं व्याख्याय विपर्ययाभिधानां वृत्तिमिदानीमुपव्यचिख्यासमान आह--विपर्ययो मिथ्याज्ञानमिति ॥  ननु निरोधस्य प्रकृतत्वात्तस्य च हानत्वाद्धानस्य च हेयपक्षत्वाद्धेयस्य चाविद्यामूलत्वादविद्या च विपर्य इति स एव प्राधान्येन निरोद्धव्यः । तत्प्रभवत्वाद्धेयस्य | कारणनिरोधे हि कार्यमर्थादेव निरुद्धं स्यात् । तस्माद्विपर्ययः प्राधान्यात् प्रमाणात् पूर्वं व्याख्यातव्य ||

 सत्यमेवमस्त्येव प्राथम्यं विपर्ययस्य निरोधनीयतया, तथापि गुणदोषज्ञानापेक्षत्वान्निरोधं प्रति पुरुषप्रवृत्तेः । प्रमाणमेव हि गुणदोषज्ञानम् । न ह्यप्रमाणेन विपर्ययंस्य दुष्टत्वं गम्यते, निरोधतत्फलसाधनानि वा ज्ञायन्ते । तस्मात् प्रमाणवृत्तेरेव प्राथम्यं युक्तम् । ज्ञायते च गुणदोषौ प्रमाणेनेति तदनन्तरं विपर्ययाभिधानम् । वृत्त्यन्तरापेक्षया तु विपर्ययस्य प्राथम्यम्। तन्मूलस्वाच्च वृत्त्यन्तराणां तन्निरोधपूर्वमे मेवान्यनिरोधोपपत्तेः ||

 विपर्ययो मिथ्याज्ञानमिति पर्यायकथनम् । अतद्रूपप्रतिष्ठमिति लक्षणोक्तिः | तस्य रूपं तद्रूपं न तद्रूपमतद्रूपं, यदाभासं विज्ञानं तस्य विज्ञानस्य च सा प्रतिष्ठा आलम्बनम् । अगृहीतविशेषस्य सामान्यमात्र-- बुद्धिरुपलब्धपूर्वान्यवस्तुस्मृत्युपसंहिता निश्चयाकरणोपसंहिता निश्चयाकारेणोपजायमाना विपर्ययः ||