पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/84

पुटमेतत् सुपुष्टितम्
३४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते । भूतार्थविषयत्वात् प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् | तद्यथा---द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति |

[ विवरणम् ]

 संशयो ह्युभयोरिदं सामान्यमित्येवं गृहीतसामान्यस्य विशेषमेव बुभुत्समानस्य जायत इति स्मृतावेवान्तर्भवति । यथा स्थाणुः किं वा पुरुष इति गृहीतपूर्वस्यैव विशेषस्य स्मरतः संशयो जायते, न तथा विपर्ययः । अन्यतरस्मरणमात्रेणैवावसितत्वात् । तद्यथा---स्थाणौ पुरस्तादवस्थिते परिणाहारोहणादिसामान्यमात्रोपलम्भेन समुपजातपुरुषस्मरणस्य पुरुष एवायमिति निश्चिता बुद्धिरुत्पद्यते ॥

 सा यद्यपीन्द्रियमार्गेणोपलभ्यमानवस्तुसामान्यप्रधाना, तथापि स्मर्यमाणातद्वस्तुप्रतिष्ठत्वान्न प्रमाणम् ! स्मृत्यवसाना हि सा, यतः प्रमाणेन प्रबाध्यते अ(अ) भूतार्थ(र्थदि)विषयत्वात् । (इत्यतः प्रतिष्ठत्वादित्येतत्) अभूतो हि स्मर्यमाणोऽर्थस्तदा । यद्येवं स्मृतिरेव प्राप्नोति-न-विशिष्टत्वात् । उपलभ्यमानं वस्तु निमित्तीकृत्यान्यत्र स्मृतिर्जायते यथानुभूतवस्तुविषया । न विपर्ययस्तथा । सन्निहितसामान्यमात्रे देशकालादिविशेषानुगते वस्तुनि स्मरणपर्यवसानत्वे सत्यप्ययमिति विशेषरूपेण विपर्ययप्रत्ययो जायते । तस्मादेवं न प्रमाणधर्मो नापि स्मृतिधर्म इति वृत्त्यन्तरत्वम् ॥

 तत्राप्रमाणस्य प्रमाणेन बाधसंदर्शनार्थमुदाहरणं दर्शयनि-तद्यथा द्विचन्द्रदर्शनमिति । यथा काचकामलाद्युपहतदर्शनस्याभूतार्थविषयत्वाद्धि द्विचन्द्रदर्शनस्य सद्विषयेण भूतार्थविषयेण एकचन्द्रदर्शनेन द्वितीयचन्द्राभावोपपत्तिज्ञानस्मृत्यनुगृहीतेन बाधनम् ।

 ननु च द्विचन्द्रमिति द्विपूली पञ्चपूलीतिवत् द्विगुसमासत्वात् “द्विगुरेकवचनम्' इति प्रतिलब्धे तद्भावात् ‘अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’ इति द्विगोरकारान्तात् (इति) द्विचन्द्रशब्दादीकारः प्राप्नोति-नैष दोषः-पात्रादिप्रतिषेधात्। तत्र चादिशब्दस्य प्रकारवचनत्वात्। प्रकारस्य च शिष्टप्रयोगानुसारित्वात् ,


1. पाणि. सू. 2, 4. 1.