पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/86

पुटमेतत् सुपुष्टितम्
३६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम ]

  न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा---चैतन्यं पुरुषस्य स्वरूपम्” इति । यदा चितिरेव पुरुषः तदा किमत्र केन व्यपदिश्यते? भवति च व्यपदेशे वृत्तिः,'यथा - चैत्रस्य गौः?' इति |

। विवरणम् ]

 यद्येवं वस्तुशून्यत्वाद्विपर्ययान्त:पातित्वं प्राप्तमू, अत आह-न विपर्येयपारोहीति । कुतः ? शब्दज्ञानानुपातित्वात् । न हि वस्तुशून्यत्वेऽपि विपर्ययः शब्दज्ञानमपेक्षते । यतः "विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्" इत्युक्तम् ।प्रमाणपरिच्छेद्यप्रत्ययं प्रत्यतिगुणभूतत्वाच्च विकल्पस्य। न हि यथा सर्वेषां विपर्ययो विरोधाद्वाध्यते, तथा विकल्पः । प्रमाणप्रत्ययगुणभावादेव ॥

 तस्माद्वस्तुशून्यत्वग्रहणेन शब्दज्ञानानुपातित्वग्रहणेन च परस्परसंबन्धेन प्रमाणविपर्ययाभ्यां प्रमाणविपर्ययगन्धमात्रानुलिप्तमपि भिन्न विकल्पाख्यं वृत्यन्तरं दर्शितभ्रु ! तद्वद्भन्धानुलेपनादेव तदानन्तर्येण विकल्पस्यारम्भः ! नापि स्मृतित्वम् । स्मृते: केवलानुभूतास्पदत्वातू॥

 अथ न त्वीदृशी चित्तवृत्तिः प्रसिद्धा । न हि स्वभावं किंचिद्वृत्तिनिमित्तमिति चेदाह-वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यमात्र]निबन्धनो व्यवहारो दृश्यते इति । मात्रग्रहण शब्दज्ञानव्यतिरिक्तकाणाभावख्यापनार्थम् । क दृश्यत इति चेदाह-तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । चितिशक्तिरपरिणामिनीत्युक्तत्वाचैतन्यमेव पुरुषः, तदेव च स्वरूपमिति व्यतिरेकाभावाद्वयतिरेकोपनिबन्धनो व्यपदेशो न स्यात्-'पुरुषस्य चैतन्यम्' इति । तथा चेममेवार्थमुपाश्रित्य शब्दविदा वार्तिककारेणीतम्-‘सिद्ध तु व्यपदेशिवद्भावात्' इति । तथैवेहपि यथा सति व्यतिरेके चैत्रस्य गौरिति तद्वदेव चैतन्य पुरुषस्येति । न हि यथा गोरन्यश्चैत्रो व्यपदेशहेतुः, तथा चितेरर्थान्तरं पुरुषोऽस्ति, येन व्यपदिश्येत । नापि चितिः पुरुषादर्थश्त्रं व्यपदिश्येत हैं तथाऽपि व्यतिरेकसंबन्धविषये भवति "चैतन्यं पुरुषस्य स्वरूपम्" इति व्यपदेशे वृत्तिः ॥


1.पा. 1.सू. 8