पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/87

पुटमेतत् सुपुष्टितम्
३७
समाधिपादः प्रथमः

[ भाष्यम् ]

 तथा, प्रतिषिद्धवस्तुधर्मो[र्मो]मनिष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वथैमात्रं गम्यते । तथा, अनुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रमवगम्यते, न पुरुषान्वयी धर्मः। तस्मात् विकल्पितः स धर्मः, तेन चास्ति व्यवहार इति ॥ ९ ॥

[ विवरणम् ]

 प्रतिषिद्धवस्तुधर्मेति । वस्तुनो धर्मो वस्तुधर्मः । प्रतिषिद्धेो वस्तुधर्मोऽस्येति प्रतिषिद्धवस्तुधर्मा ।। "धर्मादनिच् केवलात्" इति वचनात् समासान्तश्चिन्त्यसमाधिः । वस्तुशब्देन सत्त्वादिगुणा उच्यन्ते, तेषां धर्माः प्रतिषिद्धा अस्येति ।।

 न हि प्रतिषिद्धाः सत्त्वादिधर्माः प्रतिषिद्धत्वादेवास्य पुरुषस्य संबन्धिने। भवन्ति । येन ते पुरुषेण अस्येति व्यपदिश्येरन् ! तदभावमात्रमेव तु तत्रार्थः । तथापि यथा चित्रा गावोऽस्येति व्यपदेशे बुद्धिः तथा प्रतिषिद्धा वस्तुधर्मा अस्येति व्यपदेशे बुद्धिः ॥

 निर्गता क्रिया अस्मादित्यत्रापि निर्गतिरपायः । अपायश्च सम्बन्धपूर्वः | यथा चैत्रानिर्गता क्रिया । न चैवं पुरुषे क्रियाया असम्भवानिर्गति: पुरुषात सभ्भवति । तथाऽपि ‘निष्क्रियः पुरुष' इति व्यपदेशे भवति वृत्तिः ॥

 तथाऽनुत्पत्तिधर्मा पुरुष इति | न विद्यते उत्पत्तिधर्मोऽस्येति पूर्ववदेव । अत्र स्वयमेवार्थमाचष्टे भाष्यकारः---उत्पत्तिधर्मस्याभाव(ज्ञान)मात्रमव(मत्र) गम्यते । यथा निर्गुणो निरञ्जनो निष्कल इत्येवमादीन्यप्युदाहरणानि ॥आत्मविषयानेकोदाहरणप्रदर्शनमात्मतत्त्वनिर्धारणार्थत्वात् ॥

 तिष्ठति बाण इति लोकप्रसिद्धोदाहरणप्रतिपादनमप्रसिद्धयाशङ्कानिवृत्त्यर्थम् ॥ तिष्ठतीति गतिनिवृत्तिर्गल्यभावः । न चाभावस्य कालत्रययोगो भवति । नापि बाणस्य क्रियानिरंपक्षस्य द्रव्यस्य । नपि चाभावेन गतिनिवृत्या बाणस्य वस्तुनः संबन्धः । तिष्ठति बाणः [स्थास्यति स्थितः]] इत्येवं त्रीण्युदाहरणानि ॥


1. व्याकरणसूत्रं अ. 5. पी. 4. सृ• 124.