पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/88

पुटमेतत् सुपुष्टितम्
३८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ सूत्रम ]

अभावप्रत्ययालम्बना वृत्तिनेिंद्रा १० ॥

[ भाष्यम् ]

  सा च सम्प्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः । कथम् ? "सुखमाहमस्वाप्सम् , प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति” ‘दु:खमहमस्वाप्सम् , स्त्यानं मे मनो भ्रमत्यनवस्थितम्" ‘गाढमूढोऽहमस्वाप्सम् , गुरुगुरूणि मे गात्राणि, क्लान्तं मे चित्तम् अलसं मुषितमिव तिष्ठति" इति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात् प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्या इति ॥ १० ॥

[ विवरणम् ]

 गतिनिवृत्तौ धात्वर्थ इति ॥ ननु गतिनिवृत्तिरेव धात्वर्थः, तत्र कथं गतिनिवृत्ताविल्याधारः ? अत एवेोदाहरणान्तरमेतत् । असति व्यतिरेके आधाराधेयभावस्याभावात् । अस्ति च गतिनिवृत्ती धात्वर्थ इति व्यपदेशे शब्दसामर्थ्यसमुत्थापिता बुद्धिराधाराधेय[भाव]संबन्धावलम्बिनी । तस्मादित्थंजातीयं विकल्प, विषयमनेकमुदाहरणं द्रष्टव्यम् || ९ ||

 निद्राख्यां वृत्तिमिदानीमाचष्टे-अभावप्रत्ययालम्बना वृतिर्निद्रा । जाग्र- या द्विषयत्वात् प्रागुक्तस्य वृत्तित्रयस्य तदुपमर्देन च निद्रासमुद्भव इति, तदनन्तरं निद्राख्या वृत्तिर्व्यख्यायते ।

 अभाव इति जाग्रद्विषयाभावः, न त्वत्यन्ताभाव एव । तत्र प्रत्ययानुपपत्तेः । अभावे प्रत्ययः अभावप्रत्ययः । स एव आलम्बनं यस्याः सा वृत्तिरभावप्रत्ययालम्बना । सा निद्रा सुश्रुसावस्था ॥  ननु च स्वप्नावस्थाऽपि निद्रैव--नैष दोषः--"स्वप्ननिद्राज्ञानालम्बनं वा" इति सूत्रकारेण भेदेनोपदिष्टत्वादिह सुषुप्तावस्थैव निद्राऽभिप्रेता ॥

 किंच--अभावप्रत्ययालम्बनत्वाच सुषुतमेव । न हि स्वमस्याभावप्रत्ययालम्बनता, स्मृतित्वात् | स्मृतेश्वानुभूतविषयत्वात्| तथा भाष्यकारः स्वप्ने भावितस्मर्तव्या?" इति स्मृतित्वं दर्शयति ॥


1.पा 1. सू 38. 2. पा 1. सू