पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/91

पुटमेतत् सुपुष्टितम्
४१
समाधिपादः प्रथमः

[ भाष्यम् ]

 तत्र ग्रहणाकारपूर्वा बुद्धिः । ग्राह्याकारपूर्वा स्मृतिः ! सा च द्वयी भावितस्मर्तव्या च अभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या । जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमाणविपर्यंयविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येया:-सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः पुनरविद्या इति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवति असम्प्रज्ञातो वा इति || ११ ||

[ विवरणम् ]

 तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्रहणम् [स्वी]करणं[स्वी]करणमेव पूर्वं प्रथममुत्पद्यमानस्य प्रत्ययस्य । न हि विषयविशेषमपेक्षते पूर्वमिष्टानिष्टग्रहणात् , निर्भग्नघटप्रदीपविनिर्गतप्रभाजालवत् ॥

 ग्रह्याकारपूर्वा स्मृतिः अनुभूतापेक्षत्वात् । यदि च ग्रहणपूर्विका स्मृतिः प्रत्ययवदभविष्यत्, अनुभूतं नापैक्षिष्यत । अपेक्षते तु । तस्माद्ग्राह्यो विषयः पूर्वोऽस्या न ग्रहणम् । तथापि तूभयात्मिकैव । स्मृतिसंस्कारयोरेकरूपत्वात् । नाप्यन्यतरप्रत्याख्यानेन सम्भवति ! तथा चानुभूतविषयासम्प्रमोष इत्युपपद्यते । स्मृतिप्रत्यययोरपि[समान]विषयत्वात्, ग्रहणत्वस्य च सर्वत्र सम्भवात् । तस्मात् पक्षद्वयेऽप्यभिहेितदोषो न दृश्यत इति ।

 सा च द्वयी । कथमू? भावितस्मर्तव्या भावितं परिनिष्पनं असकृद्भावितत्वात् । यथा द्रव्यान्तेरणासकृद्भावितं तैलादि । असकृद्भावितत्वादेव प्रणिधानादिप्रययत्नान्तरं नोपेक्षते । भावितं स्मर्तव्यं प्रणिधानादियत्नान्तरा[न]पेक्षया यस्याः सा स्वप्ने भावितस्मर्तव्या । जा[गृ]ग्रत्समये त्वपेक्षते प्रणिधानादियत्नान्तरामिति तद्विपरीता ॥

 सर्वाश्च प्रमाणादिवृतिपञ्चतयानुभवादुद्भवति । सर्वाश्वेताः सुखाद्या(स्सत्वाद्या)त्मिका:। तदात्मकश्च संसारः । सुखदुःखमोहाश्च क्लेशेषु व्याख्याताः सूत्रकारेण। "[१]सर्वं दुःखं विवेकिन:" इति हि वक्ष्यति । तद्धानं चेह विवक्षितम् ।


१ पा २, सू १५1. पा 2. सू. 15. 6.

  1. 1