[ भाष्यम् ]
अथ आसां निरोधे क उपाय इति--
[ सूत्रम् ]
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ।।
[ भाष्यम् ]
चित्तनदी नाम उभयतोवाहिनी वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्रा सा कल्याणवहा । संसारप्राग्भारा अविवेकविषयानिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ।। १२ ॥
[ सूत्रम् ]
तत्र स्थितं यत्नोऽभ्यासः ॥ १३ ।।
[ विवरणम् ]
तस्मातू सुखदुःखमोहात्मकत्वात् निरोद्धव्या वृत्तय: | किञ्च-आसां निरोघे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वा ॥ ११ ॥
अथ आसां निरोधे क उपाय इति ॥
उपायं प्रवेदयति-अभ्यासवैराग्याभ्यां तन्निरोध इति ॥ अभ्यासवैराग्ये वक्ष्यमाणलक्षणे । ताभ्यां यथोक्तलक्षणानां [वृत्तीनां] निरोधः विरोधात् । निरोध उपशमः । अभ्यासवैराग्ययोर्विषयविवेकप्रदर्शनार्थमेतद्भाष्यम्-चित्तनदीत्यादि । " चित्तेन नद्येव संसारिणः सततं विषये परिणीयन्ते । संसारप्राग्भारा संसारावसाना समुद्रावसानेव । खिलीक्रियते प्रतिबध्यत इति । उद्धाट्यते प्रवर्त्यते । उद्घाटः क्रियत इत्युद्धाट्यते । अन्यथा मित्वात् घटादयो मितः इति (हृतु) "मितां हृस्वः" इति स्यात् । एवं उभयाधीनः उभयतन्त्र इत्यर्थ: ॥ ९२ ॥
तत्राभ्यासस्वरूपं प्रतिपादयिष्यन्नाह--तत्र स्थितौ यत्नोऽभ्यासः । तत्र तस्मिन्निरोधे । सा च निमित्तसप्तमी । निरोधनिमित्ता चित्तस्य या स्थितिः यत्नस्य फलभूता तस्या निमित्तो[क्तभूतो]यो यत्न: सोऽभ्यासः । तथा चाह--
_______________________________________________________________________________________ 1. पाणिनिसूत्रं अ. 6. पा. 4. सृ. 92.