पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/93

पुटमेतत् सुपुष्टितम्
४३
समाधिपादः प्रथमः

[ भाष्यम् ]

 चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नः-- वीर्यम्--उत्साहः । तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः॥ १३ ॥

[ सूत्रम् ]

[दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः]

दीर्घकालासेवितः, निरन्तरासेवितः, सत्कारासेवितः-तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्, दृढभूमिर्भवति-- व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्य: ॥ १४ ॥

[ सूत्रम् }

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥

[ विवरणम्]

अवृत्तिकस्य प्रशान्त[पङ्क:]कर(ङ्ग)ञ्जस्येवाभ्भसः प्रशान्तवाहिता प्रसन्नरूपत य परिणामो १निरुद्धवृत्तिकस्य २ चित्तस्य । यत्नो वीर्यमभ्युत्साह इति पर्यायाः । स्थितिसंपिपादयिषया यमनियमादियोगसाधनानुष्ठानमभ्यास इति ॥ १३ ॥

सतु कथं स्थिरीभवतीत्यत आह--दीर्घकालनैरन्तर्यसेवितः दीर्घकाल त्ववर्जितो वा [नैरन्तर्यवर्जितो वा न] दृढभूमिर्भवत्यभ्यासः । तस्मादुभयोरपि (विशेष्य)विशेषणत्वमेव । संस्कारासेवित इति त्वभ्यास एव विशेष्यते । दृढभूमिरित्यस्य व्याख्यानं व्युत्थानसंस्कारेणेति । व्युत्थानजेन संस्कोरेण द्रागिति सहसा नाभिभूयते ॥ १४ ॥

वैराग्यप्रतिपादनार्थमाह-दृष्टानुश्रविकाविषयवितृष्णस्य वशीकारसंज्ञावैराग्यम्। विषयशब्दः प्रत्येकमभिसंबध्यते वितृष्णस्य इति च, दृष्टविषयवितृष्णस्य आनुश्रविकविषयवितृष्णस्य चेति । ___________________________________________________________________________________

1. इदं अवृत्तिकस्य इति भाष्यपदस्यः व्याख्यानम् । अतः अवृत्तिकस्य इति प्रतीकादनन्तरं सन्निवेशनमुचितं प्रतिभाति । 2. इदं प्रशान्तपङ्केत्यादित: प्राक्सन्निविष्टञ्चेत्समुचितं प्रतिभाति ।