पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/97

पुटमेतत् सुपुष्टितम्
४७
समाधिपादः प्रथमः

[ सूत्रम् ]

वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः॥ १७॥

[ भाष्यम् ]

 वितर्कः-चित्तस्य आलम्बने स्थूल आभोगः ।। सूक्ष्मो विचारः । आनन्दो ह्वादः । एकात्मिका संवित् अस्मिता ।

[ विवरणम् ]

लक्षणमुच्यत इति यावत्। वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः । अनुगमशब्दः प्रत्येकं संबन्धनीयः । वितर्कानुगमाद्विचारानुगमादानन्दानु गमादस्मितारूपानुगमादिति । रूपशब्दो मात्रार्थो वितर्कादिपूर्वधर्मत्रयवर्जितत्वखख्यापनार्थः ॥

 वितर्कश्चित्तस्यालम्बने स्थूल आभोगः । स्थूल(पि)मिश्रीभावः प्रथममालम्बनाकरेण परिणममानस्य चित्तस्य य आलम्बनव्यतिकरः स वितर्कः ॥ सूक्ष्मो विचारः आभोगः सूक्ष्म इति संबन्धः । आनन्दो ह्वादः विचारः सूक्ष्मतर आभोगस्तृतीयः । सुानन्दता विशेषः । [१] इति 'एकरूपात्मिका संविदस्मिता स्वस्यां प्रकृतावस्मितायां समापनस्य अस्मिता प्रत्ययमात्रता एकरूपात्मकत्वम् । तथा चोदाह्ररिष्यति- [२]तमणुमात्मानमन्वंवैलत्यास्मीत्येतावत्संजानीत इति |}

 ननु चास्मितां क्लेशेषु पठिष्यति 'दृग्दर्शन [३]*शक्त्योरेकात्मतेवास्मिता' इति । तत्कथमिवास्मितारूपेण क्लेशेन समाधिरनुगम्यत इति । सत्यमेवं प्रकृष्टस्वकारणाकारावभासकत्वादन्यविषयविनेिवृत्तात्मकत्वाञ्चास्मिताया: समाधेिरूपत्वेऽप्यदोषः॥

 यदि वा अस्मितारूपस्यालम्बनस्याविद्यात्वेऽपि न योगिप्रत्ययस्याविद्यात्वम् । न हि खलु परचित्तविविदिषायां परस्याविद्यात्वम् । न हि खलु परचित्तप्रत्यर्य गृह्णन् परकीयाविद्याप्रत्ययरूपालम्बनदोषेण स्वयमविद्यावान् भवति ॥


  1. मुद्रितग्रन्थे तु भाष्यपाठ: 'एकात्मिका'
  2. पा. 1. सू. 36. अत्र 'तमणुमात्रमात्मानमनुविद्यास्मीत्येतावत्संप्रजानीते' इति मुद्रितभाष्यपाठः ।
  3. पा. 2. सू. б.