पृष्ठम्:प्रपन्नपारिजातः.pdf/१०

पुटमेतत् सुपुष्टितम्

9

श्रीविष्णुचित्तपदपङ्कजसङ्गमाय (संश्रयाय)
चेतो मम स्पृहयते किमतः परेण ।
नो चेन्ममापि यतिशेखरभारतीनां
भावः कथं भवितुमर्हति वाग्विधेयः॥

 इति एतदारचितग्रन्थमङ्गलश्लोकत एव निष्पद्यते, श्रीविष्णुचित्तार्याणां सविध एव श्रीभाष्यादिवेदान्तसम्प्रदायग्रन्था एभिरधीतl:-इतेि ।

विष्णुचित्तदयापात्रं वत्सवंशशिरोमणिम्।
देवराजगुरोस्सूनुं वन्दे वरददेशिकम् ॥

इति कैश्चिदाचार्यैः एतेषां ‘तनियन्' श्लोक: अनुसन्धीयते ।

 श्रीविष्णुचितार्याणां च द्रविडभाषायां ’एङ्गळाळ्वान्’ इति व्यवहारः । ते च श्रीमद्यतिराजाब्धिचन्द्रमसां श्रीमत्कुरुकेश्वरदेशिकानां प्रियशिष्या इति,

विख्यातो यतिसार्वभौमजलधेश्वन्द्रोपमन्वेन यः
श्रीभाष्ये च(ण)यदन्वयास्सुविदिताः श्रीविष्णुचित्तादयः ।
व्याख्यां भाष्यकृदाज्ञयोपनिषदां यो द्रामिडीनां व्यधात्
पूर्व(र्णं) तं कुरुकेश्वरं गुरुवरं कारुण्यपूर्णं भजे ॥

इति श्लोकतो विज्ञायते ।

एतेषां शिष्यप्रशिष्याः

 मृदुमधुरगम्भीरोपन्यासप्रकारैः श्रीमद्यतिसार्वभामानुगृहीत-दिव्यश्रीभाष्य- दुग्धामृताभिवर्षणेन सर्वमपि विश्वमाप्याययतां एतेषां महानुभावानां महागुरूणां-श्रीमद्धारीतकुलतिलकवाग्विजयसूनवः श्रीवत्सांकमिश्रवंश्याः श्रीरङ्गराज-दिव्याज्ञालब्धवेदव्यासापरनामधेयाः ’श्रीमच्छूतप्रकाशिकाचार्याः’ इति सर्वत्र सर्वतोमुखं विसृत्वरविकस्वरदिव्ययशोवैभवाः श्रीमत्सुदर्शनभट्टारका:, तथा ’श्रीवादिहंसाम्बुवाह’ (i)