पृष्ठम्:प्रपन्नपारिजातः.pdf/११

पुटमेतत् सुपुष्टितम्

10

इति प्रतिकथकविततिजेगीयमानविमलयशोभूषिताः न्यायकुलिशादि-प्रौढप्रबन्धप्रणेतारः श्रीमद्यतिराजदिव्यमाहानसिकानां श्रीमद्वेदान्तोदयनबिरुदभाजां श्रीमद्यतिशेखरगुरुतल्लजेभ्यः पवित्रतमदिव्याम्बुपरिपूर्णघटादिसमर्पणेन 'घटाम्बु 'इति तन्निरूपकसुप्रसिद्धदिव्याभिजननामधेयानां ’किडाम्बि आच्चान्’ इति द्राविडभाषायां व्यवह्रियमाणानां श्रीमत्प्रणतार्तिहराचार्याणां नप्तार:, श्रीमदुभयवेदान्तदुग्धाम्बुधिमध्योद्धृतसत्तत्त्ववचस्सुधानां श्रीरङ्गराजापरनामधेयानां श्रीमदात्रेयपद्मनाभार्याणां पुत्राः, सर्वतन्त्रस्वतन्त्रस्य कविकथककण्ठीरवस्य श्रीमद्वेदान्ताचार्यस्य मातुलपादः, तथा तदाचार्यचरणाश्च श्रीमदात्रेयरामानुजाचार्याश्व प्रधानशिष्याः ।

वन्देऽहं वरदार्य तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥

इति श्रीमच्छृतप्रकाशिकारम्भे श्रीमत्सुदर्शनसूरिभिरनुसंहितो मङ्गललोक एव एतेषामाचार्यवर्याणां 'तनियन्' श्र्लोकतया प्रसिद्धिमवाप ।

 अथ कदाचिदेभिराचार्यैः स्वान्तरङ्गशिष्येभ्यः श्रीभाष्याध्यापने क्रियमाणे, पञ्चवर्षदेशीयः पुञ्जीभूततेजोराशिः स्फुरन्मूर्तिः श्रीमान् वॆंकटनाथार्यः स्वमातुलपादैः आत्रेयरामानुजाचार्यैः साकं तदाचार्यचरणचरणनलिनसंसेवनकुतूहलेन तत्राजगाम । तस्य अतिविलक्षणाकृतेर्बालकस्य दर्शनेन पर्युत्सिकितान्तरङ्ग आचार्यपादा:, समयाचारकुशलप्रश्नाद्यनन्तरं ’कोऽयं बालकः ?’ इति आत्रेयरामानुजाचार्यान् स्वपार्श्र्चस्थितान् पर्यपृच्छन् । तैश्च सविनयमुपपादिते सर्वोदन्ते, विज्ञाततदभिजनादिवृत्तान्ताः, स्वपरित्यक्तपाठस्थलसूचनेन च संपरिज्ञाततदीयविम्फूर्जत्सुनिशित मेधावैभवा:, संप्रहृष्टस्वान्तरङ्गा: -

’प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबर्हिर्मतः ।
भूयास्त्रैलोक्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥’

इति अवितथं मङ्गलाशासनमकार्षुः; नियोजयामासुश्च स्वप्रियशिष्यान् तानात्रेयरामानुजाचार्यानेव तदाचार्यकत्वे ।