पृष्ठम्:प्रपन्नपारिजातः.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

13

एतत्प्रबन्धरचनामधिकृत्याप्येवमभ्यवर्णि -
श्रीमत्प्रपन्नजनवाञ्छितपारिजात-
नामप्रबन्धमनघं प्रबबन्ध वाचा ।
यो वै परत्वमुखपञ्चकमर्चिरादि-
मार्गं च ते वरददेशिक ! सुप्रभातम् ॥ इति ।

 अदसीयेषु प्रबन्धेषु प्रपन्नपारेिजातोऽसौ सर्वप्राणिसमुत्तरणचणप्रपत्तिमार्ग-विशदीकरणचुञ्चुः सर्वथा पारिजातायत इति, एतद्ग्रन्थमुद्रणे प्रथमं वयं प्रवृत्ताः । सति समये क्रमश एतेषां सर्वे ग्रन्था मुद्रापयिष्यन्ते ।

 प्रपत्तिमार्गविशदीकरणप्रबन्धाः प्रायशो द्राविडभाषायामेव परश्शता उपलभ्यन्ते । अयं तु, सर्वदेशविद्वदनुभावयोग्यसंस्कृतभाषायां, तत्रापि सुललेितपदबन्ध-परिमेिलितश्लोकप्रसूनसंग्रथितकाव्यरूपतया च समुल्लसतीति, पुनरयं हेम्नः परमामोदः ।

 अन्यूनानतिरिक्तविषयप्रतिपादके सारतमेऽस्मिन् प्रबन्धे, सारतमा दश अंशाः, दशसु पद्धतिषु सुललितसुभगं सकलश्रुतिस्मृतीतिहासपुराणपाञ्चरात्रादि-प्रमाणवचनोपन्यासपुरस्सरं क्रमशो निरूप्यन्ते । ते च —

 (१) प्रपत्तिबोधकप्रमाणानि (२) प्रपतिस्वरूपम् (३) प्रपत्तेरधिकारी (४) प्रपन्नानां गुरौ वृत्ति: (५) प्रपन्नानां भगवत्परिचर्याक्रमः (६) भगवत्परिजनोपासनाक्रम: (७) भागवतपरिचर्याक्रम: (८) विहितव्यवस्थापनक्रम: (९) वजैनीयविवेक: (१०) फलेोदयक्रम: - इति ।

 वेद - वेदान्त - आगम - सूत्र – स्मृति – इतिह्रास –पुराणादिषु शास्त्रेषु, ये वा विषयाः, अत्यन्तं सारतमा:, ह्निततमाश्च अतिनिगूढं समुपवणैिताः, ते सर्वेऽप्यत्र आदर्शप्राये प्रबन्धे सर्वप्राणिहृदयङ्गमं सङ्गृह्य विनिवेदिताः । अतोऽयं निरुपम: प्रबन्धपारिजातः सर्वेषामत्यन्तमुपादेय इत्यत्र नास्ति संशयलेशोऽपि ।