पृष्ठम्:प्रपन्नपारिजातः.pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

14

कृतज्ञताविष्करणम्

 एवमतिविलक्षणस्य प्रबन्धास्यास्य सम्पादने अनुमतिप्रदानादिना अतिमहान्तमुपकारं सम्पादितवद्भयः महोदारेभ्यः श्रीतिरुमलतिरुपति-देवस्थानधर्मकर्तृसंघसभ्यमहोदयेभ्यः, तथा, तत्सकलकार्यधुरंधराय महितकल्याणगुणाय श्री चेलिकानि - अन्नारावुमहाशयाय च परश्शतान् धन्यवादानर्पयामि ।

 एवं विमलकल्याणगुणगणपूर्णेभ्यः मन्दस्मितसमुदञ्चितसारसूक्तिभ्यः सदैकरूपरूपेभ्यः सदापि वात्सल्यामृतमभिवर्षद्भ्यः एतद्ग्रन्थमुद्रणे अत्यन्तमुपकृतवद्भयः श्रीमद्भ्यः अस्मदध्यक्षमहाभागेभ्यः श्रीमत्परवस्तु-वेङ्कटरामानुजस्वामिमहोदयेभ्य:, सदाऽहमधमर्णः, कृतज्ञः, क्रियमाणज्ञः, करिष्यमाणज्ञश्च भवन्, नतिततीरर्पयामि ।

 पाठभेदादिनिवेशने, तथा आकरनिर्देश – अनुबन्धादिसम्पादने सर्वत्र कर्मणि सहायभूते, विदुषि श्री-ईयुण्णि-गोपालकृष्णमाचार्ये शिरोमणौ मङ्गलशासनपुरस्सरी कृतज्ञता प्रकाशनीया भवति ।

विज्ञापनम्

 भ्रान्तेः पुरुषधर्मत्वात् अत्र ज्ञाताज्ञाता अनेके दोषा भवेयुः, तान् सर्वान् , सहृदयशिरोमणय: हुंसक्षीरन्यायेन परिपाल्य, गुणग्रहपारीणा:, समीकृत्य वात्सल्येन, पुनः संस्करणे कृपया मां प्रतिबोधयेयुरिति विज्ञाप्यते ।

  प्रसीदतु भगवान् पद्मासहाय: पद्मया सह; प्रसीदन्तु परमकारुणिका आचार्यवर्याः ; प्रसीदन्तु च वत्सलाः सहृदयशिरोमणयः ।

जय-मिथुन-शुक्दंशमी इति श्रीपदपुरी विज्ञापयिता ति. कु. वे, न, सुदर्शनदासः . १०-१-१९५८.