पृष्ठम्:प्रपन्नपारिजातः.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

ओम्
श्रीमते श्रीनिवासाय नम:

ऊर्ध्वौ हस्तौ यदीयैौ प्रतिभटदलने बिभ्रतः शङ्खचक्रे
सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणेी यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतो वेङ्कटेशस्स जीयात् ।।
चक्रं शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा
पाणिश्चारुकटिप्रसञ्चिततल: श्रीभक्तियोगं तथा ।
श्रीमत्पादसरोजदर्शककरो योगं प्रपत्तिं परं
यस्यान्वर्थचतुर्भुजस्स भगवान् जेजेतु लक्ष्मीसखः ।।
श्रीवेङ्कटाद्रिनिलयः कमलाकामुक: पुमान् ।
अभङ्गुरविभूतिर्नः तरङ्गयतु मङ्गलम् ॥