पृष्ठम्:प्रपन्नपारिजातः.pdf/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रपन्नपारिजातः

(अ)अभङ्गुरकलादानस्थूललक्ष्यत्वमीयुषे ।
तुङ्गाय 1महते तस्मै तुरङ्गाय मुखे नमः ॥ २ ॥
(आ)लक्ष्मीचक्षुग्नुध्यानात् तत्सारूप्यमुपेयुषे ।
नमोऽस्तु मीनवपुषे वेदवेदिविपन्मुषे ॥ ३ ॥
(इ)रजो रजःप्रशमनं प्रपद्ये पदयोः सताम् ।
प्रपन्नपारिजाताख्यप्रबन्धाय यतामहे ॥ ४ ॥
(ई)(१) प्रपत्तेर्मानसौभाग्यं (२) स्वरूप (३) मधिकार्यपि ।
(४) प्रपन्नानां गुरौ वृत्तिः (५) श्रीशे (६) सूरिषु (७) सत्सु च ॥ ५ ॥


मात्रप्रसन्नाचार्य - श्रीभगवद्रामानुजमुनिपुङ्गवानुगृहीत - श्रीमद्विशिष्टाद्वैत - सिद्धान्तविजयध्वज - श्रीभाष्यंदेिव्यप्रबन्धप्रवचनसाम्राज्यसिंहृासन-मधितस्थिवांसः ‘नडादूर् अम्माळू' इति द्राविडभाषायां प्रसिद्धतम-पवित्नदिव्यनामधेयाः, श्रीमदुभयवेदान्तसम्प्रदायघण्टापथप्रतिष्ठापनाचार्याः, श्रीमद्वरदाचार्यमहोदया:- भगवत्प्राप्तिस्वरूपमोक्षसाम्राज्यानुभूतिप्राप्ती भगवत्प्रपत्तिमन्तरा नान्यमुपायमाकलयन्तः, कलयन्तश्व तामेव परमोपायं, तत्स्वरूपलक्षणप्रमाणादिनिरूपणे प्रवृत्ता:, सुललितं सुभगमधुरं संस्कृतपद्यप्रसूनपरिमिलितं, कञ्चन दिव्यं प्रबन्धं प्रणिणीषवः, स्वप्रणीतप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं, प्रचयगमनाय च समुचित - इष्टदेवतानमस्कारात्मकं मङ्गलं प्रणयिष्यन्त:, प्रथमत:, तत्पुरुषकारभूत-अ[चार्यचरणचरणनलेिनवन्दनरूपं मङ्गलं तद्विहितमहोपकार-संस्मरणपुरस्सरं शिष्यशिक्षायै ग्रन्थतो निबध्रन्ति ।

(अ)तत: समुचित-इष्टदेवतास्वरूपश्रीमद्धयवदनपरब्रह्मनमस्काररूप-मङ्गलमाबध्नन्ति ।

(आ)वेदोद्धरणादिना महदुपकृतवृतः परम्पुरुषप्रथमावतारस्य लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षषो मीनवपुषो भगवतो वन्दनमातन्वन्ति।

(इ)स्वप्रबन्धप्रमेयस्य सुतरामनुगुणं सतां मद्दतां पादरजः प्रपद्य, स्वप्रबन्धप्रणयनं प्रतिजानन्ति ।

(ई)स्वप्रबन्धप्रमेयं पाठकजनमन:प्रबोधनाय विभज्य प्रदर्शयन्ति ।


1. महसे - पा。ग.