पृष्ठम्:प्रपन्नपारिजातः.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रमाणपद्धतिः

(८) विहितेषु व्यवस्थानं (९) वर्जनीयं (१०) फलं तथा ।
एते दशार्थाः 1कथ्यन्ते त्रय्यन्ताद्यर्थसंग्रहात् ।। ६ ।।
(अ)2[श्रुतार्थमननस्थेम्ने मम नेतरथा श्रम: ।
सोढव्यमत्न स्खलेितं सद्भिर्विषयगौरवात्] ॥ ७ ॥
ग्रन्थारम्भः
(आ)प्रपत्तिः - तैत्तिरीयाणां वेदे तावत् विधीयते ।
(इ)3न्यासाभ्यासप्रयोगो 4हि “वसुरण्ये” ति मन्त्रतः ॥ ८ ॥
तत्रोपास्यं यथा ब्रह्म सर्वकारणमुच्यते ।
प्रपत्तव्यं तदैवेति ‘‘5विभु विश्वसृ" गित्यपि ॥ ९ ॥
सूर्यादीनां यथापूर्वं तेजः कल्पयिताऽसि6 च ।
वसुवत् रमणीयोऽसीत्येवं ब्रह्म गुणैः स्तुतम् ॥ १० ॥
जीवात्मानं हवि: कृत्वा तच्छरीरं महीयसि ।
“ब्रह्माग्नौ 7जुहुयादो" मित्यनेनाम्नायरूपिणम् ॥ ११ ॥


(अ)त्वाहङ्कारनिरसन - नैष्ठ्यानुसन्धानपूर्वकं सतां सहृदयानां क्षमां प्रार्थयन्ते ।
(आ)प्रपत्तिसाधकानि प्रमाणानि विविच्य प्रदर्शयन्त:, प्रथमत:, सर्वप्रमाणमूलभूतत्वात्, वेदवाक्यानि नित्यनिर्दुष्टत्वतः प्रमाणानि प्रदर्शयन्ति ।
(इ)वसुरण्यो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि विश्वसूक्तेजोदास्त्वमसि । अग्रेर्वर्चोदास्त्वमसि । सूर्यस्य ह्युम्रोदास्त्वमसेि । चन्द्रमस उपयाम गृहीतोऽसि । “ ब्रह्मणे त्वा महस ओ " मित्यात्मानं युञ्जीत । एतद्वै महॊपनिषदं देवानां गुह्यं य एवं वेद । ब्रह्मणो महिमानमाप्नोति । तस्माद्ब्रह्मणो महिमानमित्युपनिषत्। इति । (तैत्तिरीयोपनिषत् ४-७७)


1. कीर्त्यन्ते-पा० ग. 2. कुण्डलितः श्लोकः “ग" पुस्तके नास्ति । 3. न्यासाख्यान-पा० क, 4. असौ-पा० ग. 5. विभुर्विश्वदृड्-पा० क. 6. अपि च-पा० क. 7. जुहुयाभीत्थमित्यनेन द्वयरूपिणा-पा० ग.