पृष्ठम्:प्रपन्नपारिजातः.pdf/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रपन्नपारिजातः

इति प्रपत्तेराम्नातः प्रयोगः प्रणवात्मना ।
(अ)तस्यैवं विदुषो यज्ञशरीरे 1तत्र कल्पितः ॥ १२ ॥

(आ)प्रपत्तिं तपसामेषां न्यासाख्यामाहुरुतमाः'2
(इ)आम्नातं कठवल्लीषु प्रपत्तेर्वाचकं द्वयम् ॥ १३ ॥

प्रमाणं सुभगं प्राह् श्वेताश्वतरसंह्रिता ।
प्राह चोपनिषन्न्यासे यथाऽनुष्ठानदर्शिनी ।। १४ ।।


(अ)तस्यैवं वेिदुषो यज्ञस्यात्मा यजमान:, श्रद्धा पत्नी, शरीरमिध्मम , उरो वेदिः, लोमानि बर्हि:, वेदश्शिखा, हृदयं यूप:, काम अज्यम् , मन्युः पशुः, तपोऽग्नि:, शमयेिता दक्षिणा, वग्घोता, प्राण उद्गाता, चक्षुरध्वर्यु:, मनो ब्रह्मा, श्रोत्रमग्नी, यावद्ध्रियते सा दीक्षा, यदश्नाति यत्पिबति तदस्य सोमपानम्, यद्रमते तदुपसदो, यत्संचरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो, यन्मुखं तदाहवनीयो, यदस्य विज्ञानं तज्जुहोति, यत्सायं प्रातरत्ति तत्समिधो, यत्सायं प्रातर्मध्यंदिनं च तानि सवनानि, ये अहोरात्रं ते दर्शपूर्णमासौ, येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि, य ऋतवस्तं पशुबन्धाः, ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणा:, सर्ववेदसं वा एतत्सत्त्रम् , यन्मरणं तदवबृथः, एतद्वै जरामर्यमग्निहोत्रम् , य एवं विद्वान उदगयने प्रमीयते देवानामेव महिमानं गत्वा आदित्यस्य सायुज्यं गच्छति, अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति, तस्माद्ब्राह्मणो महिमानमाप्रोति, तस्माद्ब्राह्मणो महिमानमित्युपनिषत्- इति । (तैत्तिरीयोपनिषत् ४-७८)

(आ)’तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः' (तै. उ. ४-७७) इति वाक्यं कटाक्षयन्त: प्रतिपादयन्ति ।

(इ)तदेषाऽभ्युक्ता । तदेव भूतं तदुपासितव्यं सत्यं तद्द्वयम् । ’श्रीमन्नारायणचरणौ शरणं प्रपद्ये’ (पूर्ववाक्यम्) । इदं पूर्णमदःपूर्णं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । सर्वं पूर्णगूं स होम । “श्रीमते नारायणाय नमः” ( उत्तरवाक्यम्) । वेदे या ब्रह्मा विदुः । वेदेनानेन वेदितव्यम् । य एवं वेद । इत्युपनिषत्- इति । (कठवल्लीखण्डम्)


1. यत्र-पा. क. 4. उत्तमाम्- पा० क्र, ग,