पृष्ठम्:प्रपन्नपारिजातः.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवद्विधा भगवता: तीर्थभूताः स्वयं प्रभो ! । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता '; ॥ ४६ ॥ * प्रमाणमियदेवालं प्रपतेः व्यासशौनकौ । मोक्तवन्तैौ यथा श्रीमद्विष्णुधर्मे च भारते ॥ ४७ ॥ “ वृथैव भवती याता भूयसी जन्मसन्ततिः । तस्यामन्यतमं जन्म संचिन्त्य शरणे त्रज ॥ ४८ ॥ “ अथ पातकभीतस्त्वं सर्वभावेन भारत ! विमुक्तान्यसमारम्भो नारायणपरो भव ' ।। ४९ ।। इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते प्रमाणपद्धतिः प्रथमा श्रीमद्वरदमहागुरुदिव्यचरणनलिने एवं शरणम् TLSSSLLLLLSDD0 AMTSHCS AAAAAS શ્રી: श्रीमते रामानुजाय नमः श्रीमते वरदायैमह्वागुरवे नमः २. अथ खरूपपद्धति: द्वितीया 'प्रपत्तिस्वरूपं चाह्; – बुद्धिरध्यवसायात्मा यान्नापर्यवसायिनी । प्राप्येच्छोरनुपायस्य प्रपते रूपमुच्यते ॥ १ ॥ f “ अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकेोपायतायान्ना प्रपत्ति: शरणागतिः ?' ॥ २ ॥ • किं बहुना, विशिष्टधर्मशास्रप्रवर्तकाभ्यां अभ्यर्हिततमाभ्यां श्रीमद्व्यासशौनकाभ्यां श्रीमति महाभारते, श्रीमति विष्णुधर्म च मुक्तकण्ठमभ्यभाषि - इति परमप्रमाणत्वेन तयोः श्लोकौ प्रमाणयन्ति । पपतिग्वरूपवैशद्यबोधिनीं श्रीमद्विष्वक्सेनसंहितां समुल्लिखन्ति । 1, वाक्यमिदं न दृश्यते ** क् ि’’ ‘’ ग पुस्तक्योः । 2