पृष्ठम्:प्रपन्नपारिजातः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ प्रपन्नपारिजातः केशवार्पणपर्यन्त ह्यात्मनिक्षेप उच्यते ' । उपाये च फले चैव 'स्वप्रयत्ननिवर्तनम् ॥ २२ ॥ स्वाम्यायत्तमिति व्यक्त निक्षेपस्याङ्गिता तथा । आर्तप्रपत्तावेित्येषां अङ्गानां सन्निधिः तथा ॥ २३ ॥ दृप्तप्रपत्तावेतनि भविष्यन्त्युत्तरोत्तरम् । अार्तदृप्तविभागस्तु श्रीमद्रामायणेोदितः ॥ २४ ॥

  • “ आर्तो वा यदि वा दृप्तः परेषां शरणागतः ।

अरिः प्राणान् परित्यज्य रक्षितव्यः क्रुतात्मना" " ।। २५ ।। f यस्य देहान्तरकृते शोको दृप्तस्स उच्यते।

  • यश्च प्रारब्धदेहेऽपि शोचत्यार्तस्स उच्यते ॥ २६ ॥

आर्तदृप्तविभागेन प्रपत्तिरियमुच्यते । साधनं भगवत्प्राप्तौ स एवेति स्थिरा दृढा' ॥ २७ ॥ साध्यभक्ति: "स्मृता सैव प्रपत्तिरिति गीयते । इमं चार्थमभिप्रेत्य वची "भागवते यथा ॥ २८ ॥ # “ प्रपन्नश्चातको यद्वत् प्रपत्तव्यः कपोतवत् । । रक्ष्यरक्षकयेोरेतत् लक्षणे' लक्ष्यमेतयोः " ॥ २९ ॥ प्रपत्तिरपि सामान्यशास्त्रऽन्यत्र प्रपञ्चिता । ० “ यद्येन कामकामेन न साध्यं साधनान्तरैः ॥ ३० ॥

  • आार्तदृमप्रपतिविभागबोधकं श्रीमद्रामायणश्लेोकमुद्ाद्दरन्ति ।

दृप्त--आर्तप्रपती विवेचयन्ति । # श्रीमद्भागवतवच: संवादयन्ति । ० प्रपतिप्रभावबोधकं शास्रान्तरं समुल्लिखन्ति । 1. खप्रयत्नात--पा० क. 2. कृतात्मभि:--पा० ख. 8, यस्तु--पा० क. 4. स्थितिर्यथा-पा० क. ü. तु यः-पा० ग. 6, भगवतो-पा० ग. 7. लक्ष्यं लक्षणम्-पा० �