पृष्ठम्:प्रपन्नपारिजातः.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ प्रपन्नपारिजात:

  • “ शरीरं वसु विज्ञानं वासः कर्म गुणानसून् ।

गुर्वथै धारयेद्यस्तु स शिष्यो नेतरस्स्मृतः ?' ॥ २० ॥ “ नारायणोऽपि 'विकृतिं याति गुरॊः प्रच्युतस्य दुर्बुद्धेः । कमलं जलादपेतं शोषयति रविनै तोषयति ॥ २१ ॥ यो विष्णोः प्रतिमाकरे लोहभावं करोति च । येो गुरौ मानुषं भावं उभैौ नरकपातिनैौ ॥ २२ ॥ सामान्यतो विशेषाञ्च 'यस्माद्धर्मान् सनातनन् । *आचिनोति स आचायैः तस्मै दुष्येन्न किंचन ।। २३ ।। 'गु' शब्दस्त्वन्धकाराख्यो' 'रु' शब्दस्तन्निरोधक: । अन्धकारनिरोधित्वात् “ गुरु " रित्यभिधीयते " ॥ २४ ॥ f मनुरप्याद्द भगवान् “ वन्द्यो बालेोऽपि मन्त्रदः । 'ज्यैष्ठये वेदान्त'विज्ञानात् विप्राणामिति चेोदितम् ॥ २५ ॥ अध्यापयामास पितृन् शिशुराङ्गीरसः कविः । पुन्नका इति होवाच ज्ञानेन परिगृह्य तान् ।। २६ ।। ते तमर्थमपृच्छन्त देवानागतमन्यव:" । देवाश्चैतान् समेत्योचुः न्याय्यं वशिशुरुत्वान् ॥ २७ ॥ बालेोऽपि विप्रो वृद्धः स्यात् पिता भवति मन्नदः ।। अज्ञे 'हि बालमित्याह् पितेत्येव च मन्त्रदम् ॥ २८ ॥ ¥ जयसंहितवचनानि उदाहरन्ति | f मनुवचर्ने प्रमाणयन्ति । 1. विमुखम्-पा० क. 2. पोषयति-पा० ग. 8. यस्तु धर्मानशेषतः-पा० क. 4. अशेषत:-पा० ग. 5. आचारयेद्यः-पा० ग, (), अन्धकारस्स्यात्-- प्रा० ग. 7. ज्येछो-पा० ग. 8. वेदार्थ--- पा० क. 9- विज्ञाने प्रमाणमिति चाहतम्-- पा० ग. 10, आहितमन्यवः-पा० ग. l l. मन्त्रतः-पा० ग. 12, तु-- पा. क. �