पृष्ठम्:प्रपन्नपारिजातः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्परिचर्यापद्धतिः २१ श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदायेमहृागुरवे नमः ५. अथ भगवत्परिचर्यापद्धतिः पञ्चमी एवं गुरुप्रसादेन 'शेषित्वज्ञानपूर्वकम् । देवतान्तरवन्नित्ये *शब्दादीनपि कुत्सयन्' ॥ १ ॥ ‘विष्णुप्राप्तेि'फलाकांक्षी विष्णुपायो हेि वैष्णवः । एकान्ती तु विनिश्चित्य देवताविषयान्तरैः ॥ २ ॥ "भक्त्युपायं समं कृष्णमाप्तौ कृष्णैकसाधनः' । देवतान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु ॥ ३ ॥ साम्यकृत् परमैकान्ती हरौ स्वामीति बुद्धिमान्। * "किं कुर्वाणः सदाकालॆ "भगवत्पादपद्मयोः ॥ ४ ॥ शेषत्वमात्मनो "जानन् सार्थयन् कालमाक्षिपेत्। विज्ञाय भूलमन्त्रार्थं 'द्वयैकार्थतया गुरोः ॥ ५ ॥ तदेकशरणो भूत्वा हरेिं तेन समर्चयेत् । त्रैकाल्यमचैनं कुर्यात् मूलमन्त्रेण शक्तितः'* ॥ ६ \त्। “ सर्ववेदान्तसारार्थेः संसारार्णेक्तारणः" । मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् ॥ ७ ॥ पवित्राणां पवित्रं च मूलमन्त्रः सनातनः ।। . . ... .. मुमुक्षूणां सदा जप्यं भुक्तिमुक्तिफलप्रदम् ॥ ८ ॥

  • भगवन्तं प्रपन्नोऽसौ इरौ स्वामीति भक्तिमान् । -पा० ग. l. शेषत्व-पा० क. 2. शब्दादीः-पा० ग. 8. कुत्सयेत्-पा० क, 4. कृष्णप्राप्ति-पा० ग. 5. फलैकथौं भक्तयुपायो हि-पा० क, ग. 6. भक्त्युपायसमम-पा० ग. 7. साधकः-पा० ग. 8. किंकुर्वाणस्सदाकालं-पा० क, ग. 9. मनस्तत्पादपद्मयोः--पा० क. 10. ज्ञात्वा--प० क, ग. 11• मन्त्रेण-पा० ग. 12. भक्तिনঃ-ধাe ঙ্ক, 18, নাবন্ধঃ—ণাe ক, • -