पृष्ठम्:प्रपन्नपारिजातः.pdf/५

पुटमेतत् सुपुष्टितम्

4

संप्राप्तौ परमोपायभूतस्य परमपुरुषप्रसादस्य प्रसाधने अत्यन्तं अन्तरङ्गभूतस्य प्रपत्त्युपायस्य प्रमाणलक्षणस्वरूपफलविशेषादिकं निखिलनिगमनिगमान्तरहस्यं सर्वमपि विषयज्ञातं ललितोचितसन्निवेशरम्येण मृदुमधुरसंस्कृतमयपदबन्धसन्दर्भेण सर्वेषामपि करतलामलकयतः प्रबन्धतल्लजस्यास्य प्रकाशनं, मन्यामहे, सर्वेषामपि सहृदयमहोदयानां महते प्रमोदाय प्रभवतीति ।

ग्रन्थकारप्रशास्तिः

प्रबन्धतल्लजस्यास्य प्रणेतार: - परमविलक्षणप्रतिभाप्रभावसमुदञ्चित-सर्वतन्त्रस्वातन्त्र्या:, नित्यानवद्यहृद्यदिव्यकल्याणगुणगणचारित्रादि-विभूषिताः, विशिष्टानुष्ठाननिष्ठागरिष्ठा:, श्रीमद्विशिष्टाद्वैतसिद्धान्तविजयध्वजायमानाः, श्रीवत्सवंशकलशोदधिपूर्णचन्द्राः, ‘नडादूर् अम्माळू ’ इति द्राविडभाषायां प्रसिद्धतमपवित्रदिव्यनामधेयाः श्रीमद्वरदाचार्यमहागुरवः ।

एते च आचार्यवर्याः, श्रुत्यन्तद्वयपीठदेशिकमणीनां श्रीदेवराजभगवदत्यन्तप्रियतमे ' नल्लान्' इति द्राविडभाषायां प्रसिद्धतमे श्रीमति श्रीवत्समहर्षिदिव्यवंशे कृतावतरणानां सन्ततसन्तन्यमानश्रीमद्देवराजभगवद्दिव्यकैङ्कर्यधुरंधराणां श्रीमद्यतिवृन्दारकसार्वभौमप्रियभागिनेयानां श्रीमच्छ्रीभाष्यसिंहासनमधितस्थुषां “नडादृर् आल्वान् ” इति द्राविडभाषायां सुप्रसिद्धानां अभ्यर्हिततमानां ‘कुलपति’ बिरुदभाजां श्रीमद्वरदविप्ण्वाचार्यवर्याणां पैौत्राः, मतप्रतिवादिवारणप्रकटारोपविमर्दनक्षमाणां वादाहवविजितप्रत्यर्थिदार्शनिकसंघप्रदत्तनैकविधबिरुदावलीविराजमानानां श्रीमदुभयवेदान्तकुलान्वयन्तदीपानां श्रीमद्देवराजगुरुचरणानां पुत्राश्च ।

यथाहुरभियुक्तI: -

श्रुत्यन्तद्वयपीठदेशिकमणिः श्रीवत्सवंशाग्रणीः
श्रीरामानुजभागिनेय इति यः ख्यातः क्षमामण्डले ।
स श्रीहस्तिगिरीशसेवनपरः प्रत्यस्तबाह्यागमे।
माहाकारुणिकिर्गुणैर्वरदविष्ण्वाख्योचितैरेधते ॥