पृष्ठम्:प्रपन्नपारिजातः.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विहितव्यवस्थानपद्धतिः ३९, अपायसम्प्लवे सद्यः प्रायश्वितं समाचरेत् । प्रायश्चित्तिरियं साऽन यत्पुनशरणे व्रजेत् ।। २६ ।। उपायानामुपायत्वस्वीकारे प्येतदेव हि । प्रायश्चितप्रसङ्गे तु सर्वपापसमुद्भवे ॥ २७ ॥ मामेकां देवदेवस्य महिषीं शरणे व्रजेत् ” । तस्मात् प्रमादात् भक्त्या' वा' यत्प्रपन्नस्य दुष्कृतम् ।। २८ ।। तत्सर्व 'शमयत्याशु शरणागतिरेव स । ज्ञात्वाऽप्यपाये पातित्वं’ यः करोति विमूढधीः । भोग एव ह्रि तत्र स्यात् निष्कृतिर्नाऽनयाऽपि हि ॥ २९ ॥ प्रपन्न इति गर्वेण न कुर्यात् पुरु दुष्कृतम् । ज्ञात्वा“प्यपायकर्माणि कुर्वन् मूढः पतत्यधः ॥ ३० ॥ ज्ञानिनी न च कुर्वन्ति यद्यज्ञानात् प्रमादतः । तञ्च ज्ञानाग्निना सर्वै दन्ति विमलाशयाः ॥ ३१ ॥

  • (अन्नाह भगवान् कृष्णः अर्जुनस्य तु श्वण्वतः । “ यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन ॥ ३२ ॥

ज्ञानाग्निस्सर्वकर्माणि भस्मसात् कुरुते तथा " ॥ ३३ ॥ भगवज्ञानविस्रम्भविशुद्धमनसां सताम् । शास्त्रोक्तं भगवज्ज्ञानं प्रायश्चित्ते क्तैनसाम् ।। ३४ ।) यस्य यावांश्च विश्वासः' तस्य सिद्धिश्च तावती । नैतावानिति विश्वासः प्रभावः परिमीयते ।। ३५ ।। 1. बुद्व या--पा० क. 2, च-पा० ग. 8. शमयित्व-पा० ग. 4. व्यपायहेतुत्वम्-पा० क. 5. ग्यपाय --पा• क. 6, 7. कुण्डलितग्रन्थः “क” पुरूतके नाति । - �