पृष्ठम्:प्रपन्नपारिजातः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 ο प्रपन्नपारिजातः वेदोदितं सदाचार'(माद्रियेत सदा“सुधीः । * अस्मिन् तन्त्रे यथोक्तं तु वैदेिकाचारलङ्घने ।। ३६ ।। “ अविप्लवाय धर्माणां पालनाय कुलस्य च । संग्रहाय च लोकानां* मर्यादास्थापनाय च ॥ ३७ ॥ प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः । मनीषी वैदिकचारं) मनसाऽपि न लङ्घयेत् ।। ३८ ।। यथाहिँ वल्लभो राज्ञी नर्दी राज्ञा प्रवर्तिताम् । * (लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ॥ ३९ ।) लङ्घयन् शृलमारोहेदनपेक्षोऽपि तां प्रति । एवं विलङ्घयन् मत्याँ* मर्यादां वेदनिर्भिताम् ॥ ४० ॥ प्रियोऽपि न प्रियो मेऽसैौ' मदाज्ञाप्यतिवर्तनात् । उपायत्वमहं तत्र वजैयेन्मनसा सुधीः ' ।। ४१ ।। स्ववर्णाश्रमयुक्तै' तु देशकालानुरूपतः । विशेषविहितं यच्च तत्कुर्याच्छ्रीपतेः प्रियम् ॥ ४२ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते विहितव्य"वस्थानपद्धति: अष्टमी श्रीमद्वरदमहागुरुदिव्थचरणनलिने एवं शरणम् 1. कुण्डलितग्रन्थः “ क' पुस्तके नास्ति ॥ 2. तथा--पा० ग. 3. लक्ष्मीतन्त्रे--पा० ग. 4. लोकस्य-पा० ग. 6. अर्धश्लोकोऽयं “ ग '? पुस्तके न ॥ 6, विप्रः--पा० क. 7. असौ मे--पा० क. 8. तस्य--पा० क, 9. रूपम्-पा० ग. 10. व्यवस्थापना--पा० क.