पृष्ठम्:प्रपन्नपारिजातः.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

낳당 मपजपारिजातः '(पापे गुरूणि गुरूणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भुवादयः ॥ २६ ॥ प्रायश्चितान्यशेषागि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणे परम्” ॥ २७ ॥ प्रमादात् क्रियते कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥ २८ ॥

  • “ भगवद्धयानयुक्तस्य तद्धयानावधिकाः क्रियाः ।

'(नास्तिकस्य तु मूखैस्य युक्तं द्वादशवार्षिकम्) ॥ २९ ॥ '(नास्तिकस्य तु कर्तव्यं यथोक्तं दशवार्षिकम्) । "एवं विषयभेदेन गुरुलघ्वोनॆ संकरः ॥ ३० ॥ क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता " । इत्येवं याज्ञवल्क्येन ब्रुवताऽऽमेशयोरपि' ॥ ३१ ॥ शेषशेषित्वविज्ञानात् शुद्धिर्जीवस्य वर्णिता । f ** अतिपापप्रवृत्तो’ऽपि ध्यायन्निमिषमच्युतम् ॥ ३२ ॥ भूयस्तपस्वी भवति पङ्क्तिपावनपावनः । अपवित्रः पवित्रेो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षे स बाह्याभ्यन्तरश्शुचिः " ॥ ३३ ॥

  • याज्ञवल्क्यवचो निर्दिशन्ति ।

शौनकवचस्समुल्लिखन्ति । 1. कुण्डलितो भागः ** क’’ पुस्तके २९ श्लेोक्ानन्तरं दृश्यते ॥ 2. तद्ज्ञाना बधिकाः-पा० क. 8. नरस्य पापमूर्खस्य-पा० क; अर्धश्लोकोऽयं “ग ' पुस्तके न ॥ 4. कुण्डलितो भागः “ क" पुस्तके न ॥ 5. सोऽयम्-पा० ग. 6. तानि कुर्यादवैष्णवः-पा० क. 7. खपरात्मनोः-पा० क; वृंहिता खपरात्मनोः-पा० ग. 8. प्रसतोऽपि-पाe G. - - �