पृष्ठम्:प्रपन्नपारिजातः.pdf/९

पुटमेतत् सुपुष्टितम्

8

तमत्यन्तमपचारमसहमाना:, भृशं दुःखिता:, सरभसं तद्बलादाकृष्य, तदन्यत्र निक्षिप्य, अन्यत् सुखोष्णं सुप्रशस्तं सुमधुरं सुभगपरिमलपरिमिलेितं स्वादिष्टं गोक्षीरं समानीय भक्तिविनमितोत्तमाङ्गा: सादरं भगवते समर्पयामासुः।

 तदा तु सपदि एतद्दर्शनसुसन्तुष्टेन भगवता तदीयनिस्सीमप्रेममहिमानुगुणं अनन्यसाघारणं ’अम्माळ्’ (अम्बा) इति बिरुदनाम समनुजगृहे । तदारभ्यैव च एतेषां ’नडादूर् अम्माळ्’ इति व्यपदेशः समजनि ।

अत्र इमौ श्लोकौ प्राचीनैरनुसंधीयेते ---
क्षीरं येन समर्पितं मधुरिमस्फारं निपीयाऽऽदरात्
धीरं ‘मज्जननी' त्यगर्जि करुणाऽऽसारं मुहुर्वर्षता।
श्रीरन्त्रा करिशैलश्रृङ्गमयतोदारं महाम्भोमुचा
नीरन्ध्रं सुखमातनोतु वचसां दृरं स वात्स्यो गुरुः॥
पुत्रिणे चिदचित्पित्र पौत्रिणे परमेष्टिना ।
स्नुषावते जगन्मात्रा वात्स्याय गुरवे नमः ।। इति ।।

 आचार्यवर्याश्चैते-स्वावतारमहिम्ना, भक्तिप्रकर्षेण च आजानपावनदिव्यशेमुषीयश:प्रभावपरिकलिताः स्वपितृचरणानां सविध एव नातिचिरेण कालेन सर्वाण्यपि तन्त्राण्यध्यगीषुः ; तदनु स्वपितृदेवानां नियमनेन श्रीमद्यतिराजाब्धिचन्द्रमसां श्रीमत्कुरुकाधीश्वरगुरुवर्याणां सच्छिप्यरत्नानां चुळुकीकृतसाङ्गोपाङ्गसशिरस्कमकलश्रुतिविततिसिन्धूनां निरन्तरमुपन्यस्यमान-प्रौढगम्भीरश्रीमद्यतिशेखरभारती-दिव्यगभीरभावानां श्रीविष्णुचित्तार्यंतल्लाजानां पादसरोजसंसेवनेन समधिगतश्रीभाष्यादिनिखिलवेदान्तदिव्यनिबन्धाः समभवन् । तदुक्तम् –-

आम्नायान्यध्यगीष्ट स्वपितृचरणतस्साकमङ्गोत्तमाङ्गैः
स्वातन्त्र्यं प्राप तन्त्रे तदनु कणभुजः पश्यदङ्घ्रेश्व शास्त्रे ।
सांख्ये योगे पुराणेष्वपि विपुलधियामग्रगण्यप्रसिद्धिम्
स श्रीमद्वत्सवंशे जयति ‘वरद' इत्याख्यया देशिकेन्द्रः ॥ इति ॥