पृष्ठम्:प्रस्थानभेदः.djvu/१०

पुटमेतत् सुपुष्टितम्
प्रस्थानभेदः ।

कौमारादिव्याकरणानि तु न वेदाङ्गानि, किं तु लौकिक- प्रयोगमात्रज्ञानार्थानीत्यवगन्तव्यम् ।।

 एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वज्ञाने, वैदिकमन्त्रपदानामर्थज्ञानाकाङ्क्ष्यायां तदर्थं भगवता यास्केन ‘समाम्नायः समाम्नात:’ ‘स व्याख्यातव्यः' इत्यादित्रयोदशाध्याय्यात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदिकमन्त्रपदानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञानाय निरुक्तमवश्यमपेक्षितम्, अन्यथानुष्ठानासंभवात् । ‘सृण्येव जर्भरी तुर्फरी तू’ इत्यादिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासंभावनीयत्वाच्च । एवं निघण्टवोऽपि वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चाध्याय्यात्मको ग्रन्थो भगवता यास्केनैव कृतः ॥

 एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च