पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२२

पुटपरिशीलयितुं काचित् समस्या अस्ति

पृथिव्याश्चलत्वं भगणानां स्थिरत्वं स्वीकृत्य - अहोरात्रासुभि: स्वाक्षो- परि पृथिव्या भ्रमणं मन्यते श्रार्यभटेनेति-आवर्त्तनमुव्यश्चेिदित्यायुक्तिः | अन्यत्रा- नेका अत्युक्तयो दुराग्रहवशात् कुत्रचिद्वाग्बलेन कथिता ब्रह्मगुप्तेन यथा-

स्वयमेव नाम यत्कृतमार्यभटेन स्फुटं स्वगणितस्य ।
सिद्धं तदस्फुटत्वं ग्रहणादीनां विसंवादात् ॥
जानात्येकमपि यतो नार्यभटो गरिणतकालगोलानाम् ।
न मया प्रोक्तानि ततः पृथक् पृथक् दूषणान्येषाम् ॥
आर्यभटदूषणानां संख्या वक्तु न शक्यते यस्मात् ।
तस्मादयमुद्देशो बुद्धिमताऽन्यानि योज्यानि ॥

स्वयं ग्रहग्रहणादिवेधकर्ता ब्रह्मगुप्तः प्राचीनाचार्येभ्योज्नेकान् विशिष्टान् ग्रहादिसाधनविधीन् गरिणतसत्यासत्यपरीक्षार्थं वेधविधींश्च स्वग्रन्थे प्रौढोक्त्या प्रतिपादयति -

ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः ।
राशिकेन भुक्त्या कल्पग्रहमण्डला नयनम् ॥
यदि भिन्नाः सिद्धान्ता भास्करसंक्रान्तयोऽपि भेदसमाः ।
स स्पष्ट: पूर्वस्यां विषुवत्यकोंदयो यस्य ॥

इत्यादिना वास्तवविचारासक्तः सर्वप्रथमं सर्वतो विशिष्टं विवेचनाबहुलं सिद्धान्तग्रन्थं ब्रह्मगुप्त एवं रचितवानित्युपलब्धज्यौतिष सिद्धान्तग्रन्थेभ्यो ज्ञायते । 'कृती जयति जिष्णुजो गरगकचक्रचूडामणि' रितिस्वसिद्धान्तशिरोमणेगणिता- ध्यायारम्भे भास्कराचार्येण ब्रह्मगुप्तमभिवन्द्य तत्परमपि बहुत्रस्थले ब्रह्मगुप्त- मतोल्लेखं कुर्वताऽपि 'यथाऽत्रग्रन्ये ब्रह्मगुप्तस्वीकृतागमोऽकृत इत्युक्त्या तद्ग्रन्थानुसारी ग्रन्थो रचित इति प्रतीयते । ब्रह्मगुप्तेनायनचलनं नोपलब्ध मिति ब्रह्मस्फुटसिद्धान्ततो ज्ञायते । अयनचलनोपलब्धि: प्रत्युत खण्डितेति दृश्यते यथा--

परमल्पामिथुनान्ते धुरात्रिनाड्योऽकंगतिवशाहृतवः |
नायनयुगमयनवशात् स्थिरमयनद्वितयमपि तस्मात् ॥

वराहमिहिरोऽयनचलनसम्बन्धे सन्दिहान प्रासीदिति 'तून कदाचिदास- द्येनोक्त पूर्वशास्त्रेषु' इति तत्कथनेन ज्ञायते । तत्समयेऽश्विन्दी क्रान्तिपात आसीदित्यश्वित्यादि नक्षत्रगरगना प्रवृत्ता सैव ब्रह्मगुप्तात्परमयावधि प्रचलति ।