पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२४

पुटपरिशीलयितुं काचित् समस्या अस्ति
(५)
द्वघूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् ।
द्विगुणं माघसिताद्यं कुर्याद् द्युगणं तदन्ह्यदयात् ॥ २॥
सैक षष्ट्यशे गणे तिथिर्भमार्क नवाहतेऽक्ष्यकैः ।
दिग्रसभाग: सप्तभिरूनं शशिभं धनिष्ठाद्यम् ॥३॥
प्रागर्धे पर्व यदा तदोत्तरातोऽन्यथा तिथिः पूर्वा ।
अर्कने व्यतिपाता घुगणे पञ्चाम्बरहुताशेः ॥४॥
द्व्यग्निनगेषूत्तरतः स्वमितमेष्य दिनमपि याम्यायनस्य |
द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम् ॥५॥

एतदनुसारेणैकस्मिन् युगे सौरवर्षाणि = ५, सौरमासाः= ५ x १२ = ६० । अधिमासौ = २ । चन्द्रमासाः = ६२ एते त्रिशद्गुरिणतास्तिथयः =- १८६० अव F = ३०, एभी रहितास्तिथयोऽहमरगः = १८३० इति ॥

पञ्च सिद्धान्तिकायां 'पोलिश सिद्धान्तः' इति नाम्ना एकोऽध्यायो वर्त्तते, ब्राह्मस्फुट सिद्धान्तटीकायां पृथूदकेन बहून्येव पौलिशसिद्धान्तवचनानि प्रमाण- त्वेनोद्ध तानि सन्ति । अस्य सिद्धान्त रचयितुः सम्बन्चे बहूनि मतान्तराणि सन्ति । वराहोक्तपौलिशसिद्धान्ते यवनपुरात् उज्जयिन्या वाराणस्याश्च देशान्तरमुल्लिखितमस्ति । यथा -

अवनाच्चरजा नाड्य: सप्तावन्त्यां विभागसंमिश्राः ।
वाराणस्यां त्रिकृतिः साधनमन्यत्र वक्ष्यामि ॥

शाकल्यसंहितोक्त ब्रह्मसिद्धान्ते पुलिशसिद्धान्तोल्लेखो वर्त्तते । ब्राह्मस्फुट- सिद्धान्तटीकायां पृथूदकेन 'देशान्तर रेखा च पोलिशे पठ्यते' इत्युक्तम् । तथा च पुलिशाचार्य :-

'उज्जयिनी रोहीतककुरुयमुनाहिमनिवासमेरूणाम् ।
देशान्तरं न कार्यं तल्लेखामध्यसंस्थदेशेषु ॥'

इत्यादि विचारेण पौलिशसिद्धान्तः सर्वमान्य श्रासीदिति प्रतिभाति । परमयं सिद्धान्तः साम्प्रतं नोपलभ्यते इति ।

सूर्य सिद्धान्त एव प्राचीनतमः सर्वप्रथमः सिद्धान्तग्रन्थ इति बहूनां विदुषां मतम् ।

'केचित्प्रत्यक्ष सूर्याच्च भिन्नोऽयमिति यद्वलात् ।
वदन्ति मूढवादस्याप्रामाण्यात्तदसध्रुवम् ॥'