पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२७

पुटपरिशीलयितुं काचित् समस्या अस्ति
(८)

शिरोमणेर्गरिगताध्यायस्य स्पष्टाधिकारे एतस्याऽनयन प्रकारोऽभिहितः । 'मुहुः स्फुटातो ग्रहणे रवीन्दोस्तिथिस्त्विदं जिणुसुतो जगाद' इति भास्कारोक्तेजयते यदेतस्याविष्कर्ता ब्रह्मगुप्त एवास्ति | भास्कराचार्येण भोग्यखण्डस्पष्टीकरण यदभिहितं तन्मूलमपि ब्राह्मस्फुटसिद्धान्तस्य ध्यानग्रहोपदेशाध्याये ब्रह्मगुप्तोक्त मेव, न ह्यन्यैराचार्यैस्तत्सम्बन्धे किमपि लिखितम् | कमलाकरेण तु सिद्धान्त- तत्वविवेके भास्करोक्तभोग्यखण्डस्पष्टीकरणस्य खण्डनमेव कृतम् । वस्तुत: कमलाकरोक्तं खण्डनं न समीचीनम् । ब्राह्मस्फुटसिद्धान्ते त्रिश्नाधिकारे दिक्साधने 'पूर्वापरयोबिन्दू तुल्यच्छायाग्रयोदिगपराध: । पूर्वान्य: कान्तिवशात् तन्मध्याच्छकुतल मितरे' इत्यत्र क्रान्तिवशादिवसाधने कथं भेद उत्पद्यते तदर्थ चतुर्वेदाचार्येण कर्णवृत्ताग्रान्तरं यत्साधितं तदेव 'छायानिर्गमनप्रवेशसमयाक क्रान्तिजीवान्तरमि' त्याद्युक्त्या श्रीपतिना, तदनु 'तत्कालापम जीवयोस्तुविवरादि' त्यादिना भास्करेण च गृहीतम् | मन्दफलानयने वस्तुतो मन्दकर्णानुपातेनैव • मन्दफलं सिध्यति । यद्यप्यत्र भास्करेग स्वमतं न प्रतिपादितं तथापि चन्द्रग्रहयो स्फुटरविचन्द्रक साधने 'मन्द तिक्त्र तिवत् प्रसाध्या' इत्यादिना ब्रह्मगुप्त- स्यैव मतं स्वीकृतमित्यपि ब्रह्मगुप्तोक्तेर्वेलक्षण्यमस्ति । लल्लाचार्येण वळनक- गोरानयन मुत्क्रमज्ययाकृतमिति ब्रह्मगुप्तोक्तो 'अत्र ज्याशब्देनोत्कमज्या ग्रति चतुर्वेदाचार्यव्याख्यानमेव लक्ष्यीकृत्य भास्करेण 'ब्रह्मगुप्तकृतिरत्र- सुन्दरी साऽन्यथा तदनुर्गविचार्यते' इत्युक्तम् ।

'युगमत्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः ।
यस्मान्न रोमके ते स्मृतिवाह्यो रोमकस्तस्मात् ॥'
(ब्राह्मस्फुट सिद्धान्त अध्याय २)

इति ब्रह्मगुप्तोक्त्या 'रोमक' इति नाम्ना चार्य कस्यचित्यज्यो तिविदो मूलमादाय रोमक सिद्धान्तो रचित इति स्फुटं भवति । प्राचीनाचार्या मध्ये केवलं ब्रह्मगुप्त एव रोमकमतं खण्डयति । वराहमिहिरस्तु रोमक सिद्धान्तमतेनाहर्गणादीनां बहूनामेव सिद्धान्तोक्तविषयाणां साधनं स्वीकरोति । ब्रह्मगुप्तः ---

ब्रह्मो ग्रहगणितं महता कालेन यत् खिलीभृतम् ।
अभिधीयते स्फुटं तज्जिष्णुसुतब्रह्लागुप्तेन ॥

इत्युक्त्या ब्रह्मसिद्धान्तमेव संस्कृतवानिति स्फुटमेन। तदेतेषां मूलरूप - एको ब्रह्मसिद्धान्तोऽतिप्राचीन प्रासीदिति सिद्धयति । ब्रह्मगुप्तस्तु -

'येऽज्ञानपटलरुद्ध दृशोऽन्यं ब्राह्माद्वदन्ति सिद्धान्तम् ।
सेषां युगादिभेदे ये दोषास्तान् प्रवक्ष्यामि ॥'