पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३२

पुटपरिशीलयितुं काचित् समस्या अस्ति
(१३)

भुजांशतो राश्यादिरवेर्ज्ञानं पदावीनं तत्र पदज्ञानोपायः प्राचीन: कैश्चिन्त कृतः, यथाऽत्राचार्योग--

'कान्तिव्यसार्धगुगा जिनभागज्याहृता धनुरजादौ ।
कक्र्यादी चकाप्रोहा तुलादो सचकार्यम् ॥

चक्रात्प्रोमृगादौ स्फुटो सकृत् व्यस्तमृणं धनं मध्यम् । अस्मादिति' एतेन रवेरानयनं कृतम् । श्रीपतिना तुलाढतस्य विवस्वतो दिनदलप्रभयो- 'यु' तिरविता | भवति वै निजदेश त्यनेन पलभामानं ज्ञात्वा ---

'आद्यपदेचयिनी पलभाल्पिका स्यात् छायाल्पिका भवति वृद्धिमती द्वितीये ।
छायाधिका भवति वृद्धिमती तृतीये तुर्येपुनः क्षयवती तदनल्पिका च ॥
वृद्धि प्रयान्ती यदि दक्षिणाग्रच्छाया तथापि प्रथमं पदं स्यात् ।
ह्रास व्रजन्तीमथ तां विलोक्य रवेविजानीहि पदं द्वितीयम् ॥'

इत्यनेन गोलयुक्तिसिद्ध पदज्ञानं कृतम् । अत्र भास्कराचार्य:-

क्रान्तिज्या त्रिज्याघ्नी जिनभागज्योद्घृता दोर्ज्या |
तद्धनुराधे चरणे वर्षस्यार्क: प्रजायतेऽन्येषु ॥
भार्धाच्च्युतः सभार्थी भगणात्पतितोऽत्र चरणानाम् |
ऋतुचिन्हैर्ज्ञानं स्यादृतुचिन्हान्यग्रतस्ततो वक्ष्ये ॥'

इत्यनेनाचार्योक्तवदेव कथितवान् केवलं 'ऋतुचिन्हैशनं स्यादिति' विशेषं कथितवान् | पदज्ञानार्थमृतुवर्णन नामकमेकमधिकार सिद्धान्तशिरोमरोगला- घ्यायेऽभिहितम् | भास्करतो नवीनाः कमलाकरत: प्राचीनाः सर्वेऽपि सिद्धान्त- ग्रन्थकर्तारो ज्यौतिषसिद्धान्तस्यैकम ज्ञात्वा स्वस्वसिद्धान्तमन्थे निश्चित रूपेण 'ऋतुवरर्गानाध्याय,' प्रोक्त'वन्तः । सिद्धान्ततत्वविवेके आये पदेऽपचयिनी पलभाउल्पिका स्या' दित्यादि श्रीपत्युक्त पदज्ञानबोधक श्लोकद्वयं लिखित्वा कमलाकरेग -

'ऋतुचिह्नैरिदं पूर्वैरुक्तं सर्वत्र तन हि ।
केवलं कुकविप्रीत्यै पदज्ञप्त्यै न तद्रवेः ॥'

इत्यनेन भास्करोक्त ऋतुवर्णनं निन्दितम् । वस्तुत: 'सर्वत्र तन्नही'ति कमलाकरोक्त यथार्थमेव । परं पदज्ञान प्रकारोऽयं श्रोपयुक्त इति कमलाकरेण मोक्तः । सिद्धान्तशेखरस्याप्राप्तौ प्रकारोऽयं कमलाकरस्यैवेत्याधुनिका ज्योतिर्विदो जानन्त आसन् । यदि रवेः पदज्ञानाथं कोऽपि प्रकार: प्राचीनैर्यथार्थतो नोक्तस्तदा प्रकारस्यास्य रचयिता श्रोपतिरवश्यमेव सर्वेषां ज्योतिविदां प्रशंसापात्रमित्यत्र न कोऽपि सन्देहः । महदाश्चर्यं चैतद्यत् श्रीपतिकृतमिदं गोलयुक्तियुक्त पदज्ञानं