पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३३

पुटपरिशीलयितुं काचित् समस्या अस्ति
( १४ )

त्यक्त्वा भास्कराचार्येण ऋतुवर्णनद्वारा पदज्ञानं समोचीनं ज्ञात्वा कृतमिति । चन्द्रग्रहणाध्याये रविचन्द्रभुवां योजनविम्वानि, रविचन्द्रयोर्योजनात्मक कर्म- स्पष्टीकरणं, भूभा बिम्बानयनं, ग्रासमानाद्यानयनं, परिलेख प्रकारचाचार्येक्तः, श्रीपतिना भास्कराचार्येरंग च कथनक्रममादाय विशेषतया तथैवानूदितः । ब्रह्म- गुप्तकृत एव सूर्यग्रहणाधिकार : श्रीपतिना प्रायः श्लोकान्तररुक्तः | उदयास्तमया- ध्याये आयन हक्कर्म साधनं कृतं परं तन्न समीचीनं श्रीपतिनाऽपि प्राचीनोत्त तदानयनं कृत्वा --

खनभोवृतिभिः समाहृतं प्रथमं हुक्कूलमायनाह्वयम् |
द्युचराश्रितभोदयासुभिर्विहृतं स्पष्टमिह प्रजायते ॥

इत्यनेन तत्स्फुटीकरणं कृतं, एतदवलोक्य भास्कराचार्येण 'आयनं वल- नमस्फुटेषुणा सगुणमि' स्यादिना तदेवोक्तम् । चन्द्राध्याये ब्रह्मगुप्तेन बहवों- विषयाः प्रतिपादिताः सन्ति, श्रीपतिना तु वराहब्रह्मगुप्ललल्लाचार्याणां बहवः श्लोका अनूदिताः । वस्तुतो नास्ति कश्चिद्विशेषः । केवलं चन्द्रस्य स्पष्टचरा- नयने परिलेख सूत्रप्रमारणानयने च वहून्येव प्रकारान्तराणि स्फुटोक्त्या लिखि- तानि सन्ति । वराह्ब्रह्मगुप्तलल्लाचार्यैरुदयान्तरकर्म नोक्तं ग्रहयुत्यध्याये ( ग्रह- युद्धाध्याये ग्रहयोगाध्याये वा) -

अन्त्यभ्रमेणगुरिणता रविबाहुजीवाऽभीष्टभ्रमेण विहृता फलकार्मुकेरण ।
बाहो: कलासु रहितास्ववशेषकं ते यातासवो युगयुजो: पदयोर्धनम् ॥

इत्यनेन श्रीपत्युक्तं दृग्गरिगतैक्यकृत् कमैद भास्कराचार्येण उदयान्तर- कर्मेति नाम्नोक्तम् । सिद्धान्तशेखरस्याप्राप्तौ भास्कराचार्यवानुभूतमिदं कर्मे- त्याधुनिकानां गणकानां प्रतीतिरासीत् । इदमुदयान्तरकर्म प्रथमं श्रीपतिरेक स्वकीय विचारेण कथयामासेति ज्ञायते । तथा च--

त्रिभविरहित चन्द्रोच्चोनभास्वभुजज्या गगननृपविनिघ्नी भञयज्या विभक्ता ।
भवति चरफलाख्यं तत्पृथक्स्थं शरघ्नं हृतमुडुपतिकणंत्रिज्ययोरन्तरेण ॥१॥
परमफलमवाप्तं तद्धन पृथक्स्थे तुहिन किरणकर्णे त्रिज्यकोना विकेऽथ | स्फुट-
दिनकर हीनादिन्दुतो या भुजज्या स्फुटपरसफलघ्नी भाजिता त्रिज्ययाऽऽप्तम् ॥२॥
शशिनिचरफलाख्यं सूर्यहीनेन्दुगोलात् तहणमुतधनं चेन्द्रच्चहीनार्कगोलम् ।
यदि भवति हि साम्यं व्यस्तमेतद्विधेयं स्फुटरिणतहमैक्यं कत्तु मिच्छन्द्रिरत्र ॥३॥

श्लोकत्रयेणानेन हरितक्यार्थं श्रीपतिना चन्द्र संस्कारविशेषो दत्तः । स्मन्नपि प्राचीन ग्रन्थे नायं संस्कारो लिखितो वर्त्तते । यद्यपि -