पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३५

पुटपरिशीलयितुं काचित् समस्या अस्ति
(१६)

ब्राह्मस्फुटसिद्धान्तोत्तरार्धे परिकर्मविशतिः (सङ्कलितम्, व्यत्रकलिनम् प्रत्युत् तन्नो गुणनम् । भागहारः, वर्गः, वर्गमूलम्, घनः, घनमूलम् | पवजातयः, त्रैराशिकम्, व्यस्तत्रैराशिकम, पञ्चराशिकम्, सप्तराशिकम्, नवराणिकम्, एका- दश राशिकम्, भाण्डप्रति भाण्डं चेति ) कथिताऽस्ति, सर्वचैव चतुर्वेदाचार्याक्का उद्देशका: (उदाहरणानि) सन्ति । सिद्धान्तशेखरेऽपि परिकर्मविंशतिः (अभिन्ना- ङ्कानां गुणन-भजन-वर्ग-वर्गमूल-घन-घनमूलानीति पट् ६, भिन्नाकानां योगान्तर- गुणन-भजन-वर्ग-वर्गमूलानीति षद् ६, भाग प्रभाग-भागानुबन्ध-भागापवाहाव्य- जाति चतुष्टयम् ४, विलोमकर्म १, त्रैौराशिकम् १, व्यस्त राशिकम् १, पञ्च- राशिकम् १, इति ) ब्रह्मगुप्तश्रीपत्युक्त विशत्यां परिकर्मसु विषयवर्ण महा भेदोऽस्ति तद्विशते: परिकर्मणां नामानि बहुधा भिन्नानि सन्ति । भास्करीत- प्रकीर्णविषयाः (सङ्कलिततो भाण्डप्रतिभाण्डं यावत्) यादृशाः स्फुटरूपे वरिंगताः सन्ति न तादृशा ब्रह्मगुप्तश्रीपत्योः परिकर्मविशत्युक्तविषयाः । वि यास्तु ब्रह्मगुप्तौ-श्रीपत्युक्तौ भास्करोक्तौ-समाना एव किन्तु तत्प्रति पादरीतयो भिन्ना भिन्नाः सन्ति । एवमौ व्यवहारा: (मिश्रक व्यवहारः, श्री व्यवहार, क्षेत्रव्यवहारः, खातव्यवहारः, चिति व्यवहारः, क्राकचिक व्यवहारा, राशिव्यय- हारः, छायाव्यवहारः) ब्राह्मस्फुटसिद्धान्ते, सिद्धान्तशेवरे भास्करीम लीलावत्यां च सन्ति, एतेष्वष्ट्रसु व्यवहारेष्वपि बहुधैवान्याहशत्वमस्ति, सर्वेषु व्यवहारेg ब्रह्मगुप्तोक्तश्रीपत्युक्तव्यवहाराभ्यां भास्करोक्तव्यवहारेपु-विषयाधिक्य-विषय- प्रतिपादन स्फुटत्वं चास्ति, ग्रन्थत्रया (ब्राह्मस्फुटसिद्धान्तः सिद्धान्तशेवरः लीला- वती च) वलोकनेनेति स्फुटं भवति, एतत्परं प्रश्नाध्यायोऽस्ति यत्र मध्यमत्युत्तग ध्यायः, स्फुटगत्युत्तराध्यायः | त्रिप्रश्नोत्तराध्यायः | ग्रहणोत्तराध्यायः | शृङ्गो- न्मत्युत्तराध्यायः । एतेषु पञ्चसूत्तराध्यायेषु सोत्तराः प्रश्ता: सन्ति प्रश्नावातीच विलक्षणाः सन्ति, येषामभ्यासेन पाठका ती ज्योतिषसिद्धान्तविषयेषु-निपुरगा भवितुमर्हन्ति प्रत्यध्यायमीदृशः सोत्तरप्रश्नक्रमलेख: किश्चित् किञ्चिद्वटेश्वर- "सिद्धान्ते-सिद्धान्तशेखरे चावलोक्यते । सिद्धान्तशिरोमण्यादौ नायं क्रमोऽस्ति । एतत्परं प्रश्नसहितः कुट्टकाध्यायोऽस्ति ब्रह्मगुप्तोक्तकुट्टकाध्याये श्रीपयुक्त- भास्करोक्ताभ्यां विषयाधिक्यमस्ति किन्तु विषयकथनस्फुटता भास्करोक्ता- वेवास्ति, धनरादीनां सङ्कलितव्यवकलितादि-भास्करोक्तवदेवास्ति-सिद्धान्त- शेखरेऽपि, ततः परमेकवतमोकरणं बीजमस्ति, भास्करोक्तैकवर्ण समीकरण- ब्रीजतोऽल्पमेवास्ति । ततः परमनेकवर्ण समीकरणबीजमस्ति, ब्रह्मगुप्तमिदमपूर्व-


१. ब्रह्मगुप्तोक्त कुट्टकाध्याये बहवः प्रश्नास्तादृशाः सन्ति येषामुत्तरमतीबाऽऽनन्द- जनकमस्ति, `येषामभ्यासेन पाठकास्तत्सम्बन्धिविषयाणामतिज्ञातारो भवितुमर्हन्तीति ।