पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
नीतिशतके

वस्तुनिर्माणकर्मत्वेन नियमितो नियोजितः। येन विष्णुः कुक्षिस्थाखिल- भुवनोऽपि । महासंकटेऽतिकृच्छूतरे । दशावतारा एव गहनमरण्यानी- सत्र क्षिप्तो निक्षित्पः । येन कर्मणा रुद्रो मृत्युञ्जयोऽपीति भावः । कपालं ब्रह्मशिर एव पाणिपुटकं करतलस्थभिक्षाहरणोचितभाजनं तत्र। भिक्षाटनं सेवते - कपालस्थभिक्षान्नं भुङ्क्त इत्यर्थः। किं च येन सूर्योऽपि सकरलोकप्रकाशकोऽपीति भावः। नियमित इति शेषः - गगनेऽन्तरिक्षे नित्यमेव न तु क्षणमात्रमपि विश्रमावकाश- इति भावः । भ्राम्यति परिवर्तते *वाभ्राशे'त्यादिना विकल्पात् इयन्प्रत्ययः। तस्मै सकलनियन्त्रे कर्मणे नमः . तथाभूतस्यैवाभि- वादनौचित्यादिति भावः ॥

या साधूध खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः
प्रत्यक्ष कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।
तामाराधय सक्रियां भगवती भोक्तुं फलं वाञ्छितं
हे साधो व्यसनैगुणेषु विपुलेवास्थां वृथा माकृथाः ॥ ९४ ॥

 व्या.-एवं श्लोकद्वयेन सकलनियामकत्वकथनपूर्वकमभि- वादनीयत्वोपयोगात्स्वयमभिवाद्य संप्रति बहुश्रेयोहेतुत्वात्तस्योपादे- यतामाह - येति.---या सक्रिया खलांश्च दुर्जनानपि साधून्करोति। मूर्खानज्ञानिनोऽपि । विदुषः पण्डितान्। करोति। द्वषिणोऽपि। हितांत्सुहदः करोति । परोक्षमतीन्द्रियमपि वस्तु। प्रत्यक्षमिन्द्रिय गोधरं । कुरुते। तथा हालाहलं विषमपि। तत्क्षणात्सद्य एवामृतं करोति - ताइक्सामर्थ्यसंभवादिति भावः । अतः हे साधो सज्जननिपुणेति वा - 'साधुस्समर्थो निपुणो वेति काशिकायाम् ।