पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
नीतिशतके

 अत्र यस्तपो न भजति स तिलखलं पचतीत्यादि विशिष्टभज- नपचनाद्यो वाक्यार्थयोर्निर्दिष्टकत्वासंभवात्सादृश्यलक्षणायामसंभवद्व- स्तुसंबन्धो वाक्यार्थवृत्तिर्निदर्शनाभेद इत्येतत्सर्वं मूर्खपद्तौ व्याख्या- तमितीहोपरभ्यते ॥

नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि ।
काले फलन्ति प्रुषस्य यथैव वृक्षाः ।। १८ ।।

 व्या --- पुण्यविशेष एव फलं न त्वन्यदित्याह.-नेति । आकृ- तिराकारसंपत्तिरेव । नैव फलति फलकारणं न भवतीत्यर्थः। कुलं सद्वंशो वा। नैवफलति । शीलं सरस्वभावो वा नफलति । विद्याऽपि वेदवेदाङ्गात्मिकाऽपि । नैव फलति । यत्नकृता प्रयत्नानुष्ठिता सेवा राजादिपरिचर्या च । न फलति । किं तु पूर्वतपसा पुराकृतसुकृतेन संचितानि संपादितानि। पुरुषस्य संबन्धीनि। भाग्यानि। वृक्षा- यथा । वृक्षाइवेत्यर्थः - 'इव वद्वा यथा शन्दा’विति दण्ड्याचार्यानु- शासनात् । काले परिपाकसमय एव फलन्ति खलु। तपोजनित. भाग्यविशेषव्यतिरेकेण फलजनकं न किंचिदस्तीत्यर्थः ।।

मज्जत्वम्भासि यातु मेरुशिखरं शत्रून् जयत्वाहवे
वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षताम् ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ९९ ॥